SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२२ जैनकुमारसंभवं [नवमः मनुष्व मूर्ति मम तैजसीमिमां, महानसि स्थापय तन्महानसे ॥ ७३ ।। जने जियत्सौ यदतीव जीवनं, ___ मयैव तद्भक्ष्यमुपस्करिष्यते । इति स्वरूपं किममुष्य भाषितुं, ६ भुवि प्रविश्यन्ननलोऽस्फुरत्पुरः ॥ ७४ ॥ युग्मम् । प्रभो० अनलो वैश्वानरः अमुष्य तव पुत्रस्य इति भाषितुं ९भुवि पृथिव्यां प्रविश्यन् प्रवेष्टुकामः सन् पुरोडो अस्फुरत् , इतीति किं ? हे प्रभो! क्षितौ पृथिव्यां मां कोऽपि न उपलक्षयिष्यति यत् अहं चिरात् गोचरं दृष्टिमार्ग आगतोऽस्मि, मम १२ इमां तैजसीं मूर्ति मनुष्व जानीहि, त्वं महान् असि, तत् तस्मात् कारणात् मां महानसे पाकस्थाने स्थापय । जिघत्सौ बुभुक्षिते जने लोके यद्भक्ष्यं अतीव जीवनं वर्तते तद्भक्ष्य १५ मयैवोपस्करिष्यते ॥ ७३-७१ ॥ युग्मम् ।। सुदुर्वचं शास्त्रविदामिदं मया, फलं खसंवित्तिबलादलापि ते । १४ दुरासदं यद् व्यवसायसोष्मणां, सुखं तदाकर्षणमात्रिकोऽश्नुते ॥ ७५ ॥ सुदु० हे प्रिये ! इदं खमफलं मया ते तव खसंवित्तिबलात् खीयज्ञानबलात् , अलापि प्रोक्तं, किंलक्षणं खमफलं ? २२ शास्त्रविदां सुदुर्वचं वक्तुमशक्यं व्यवसायसोष्मणां व्यवसाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy