SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सर्ग:] टीकया सहितम ३२१ __न० हे प्रिये ! वा अथवा तव स गर्भगः पुत्रः रत्नराशिना इति प्रार्थयितुं किमु इति किं सुखं सिषेवे सेवितः, इतीति किं अहं कर्कशतागुरौ काठिन्यगरीयसि रोहणगिरौ रोहणाचले ३ वा अथवा अनुपकारिणि उपकाररहिते जले सागरे समुद्रमध्ये निर्मलधामयोग्यतां निर्मलस्य धाम्नः स्थानकस्य योग्यतां न गतः न प्राप्तः, तु पुनः शुचौ पवित्रे तव धाम्नि स्थितिं समीहे ॥ ७० ॥६ हे खामिन् ! परार्थवैयर्थ्यमलीमसं परोपकारस्य निरर्थकत्वेन न मलिनं मे जनुर्मदीयं जन्म सन्ततदानवारिणा निरंतरदानरूपजलेन पुनीहि पवित्रं कुरु ।। ७१ ॥ युग्मम् । स्फुरन्महाः प्राज्यरसोपभोगतो, गतो न जाड्यं द्युतिहेतुहेतिभृत् । तव ज्वलद्वतिविलोकनात्सुतो, द्विषः पतङ्गानिव धक्ष्यति क्षणात् ॥ ७२ ॥ स्फुर० हे प्रिये ! तव सुतः ज्वलद्वह्रिविलोकनात् निधूमवैश्वानरदर्शनात् द्विषः शत्रून् पतङ्गानिव क्षणात् धक्ष्यति भस्मी-१५ करिष्यति । किं विशिष्टस्तव सुतः । वहिश्व ? प्राज्यरसोपभोगतः प्राज्या प्रभूता रसा पृथ्वी, पक्षे प्रकृष्टः आज्यरसः तस्याश्च तस्य उपभोगतः स्फुरन्महाः प्रसरतेजाः, पुनः किंलक्षणं जाड्यं१४ जडत्वं मूर्खत्वं शीतत्वं वा न गतः, द्युतिहेतुहेतिभृत् द्युतिहेतवो हेतयः प्रहरणानि ज्वाला वा ता धरतीति द्युति० ॥ ७२ ॥ प्रभो न मां कोऽप्युपलक्षयिष्यति, - क्षितौ चिरागोचरमागतोऽसि यत । जै० कु. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy