________________
३२०
टीकया सहितम् [नवमः कारणात् स वर्गो ममापि विषोपमो न अस्तु अपि तु अस्त्वेव वा ।। ६८ ॥ त्रिभिर्विशेषकम् । ३ विलोकिते रत्नगणे स ते सुतः,
स्थितौ दधानः किल काञ्चनौचितीम् ।
उदंशुमत्रासमुपास्य विग्रहं, ६ महीमहेन्द्रैर्महितो भविष्यति ॥ ६९ ॥
विलो० हे प्रिये ! किल इति सत्ये स ते तव सुतः रत्नगणे रत्नसमूहे विलोकिते दृष्टे सति रत्नगणवत् उदंशु उद्गतकिरणं ९ अत्रासं भयरहितं दवरकरहितं वा विग्रहं युद्धं शरीरं वा समुपास्य संसेव्य महामहेन्द्रैः पृथ्वीसत्कराजभिः महितः पूजितो भविष्यति, किं कुर्वाणः त्वत्सुतो रत्नगणश्च स्थिती १२ मर्यादायां काञ्चन अपूर्वा औचितीं दधानः, पक्षे स्थितौ अवस्थाने काश्चने सुवर्णे औचितीं दधानः ॥ ६९ ॥
न रोहणे कर्कशतागुरौ गिरी, १५ न सागरे वाऽनुपकारिवारिणि ।
अहं गतो निर्मलधामयोग्यतां,
शुचौ समीहे तव धाम्नि तु स्थितिम् ॥ ७॥ १८ परार्थवैयर्थ्यमलीमसं जनुः,
.. पुनीहि मे संततदानवारिणा।
तवेति वा प्रार्थयितुं स गर्भगः, ...... - सुखं सिषेवे किमु रत्नराशिना ॥ ७१ ॥
- युग्मम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org