________________
३१८
टीकया सहितम् [नवमः इति सत्ये राजनीतेः कूलमुद्रुजः कूलंकषः मात्स्यः समयः मत्स्यगिलागिलिन्यायो मयि भवन् सन् न न्यवारि न वारितः ३॥ ६३ ॥ इदं धरातलं पृथ्वीतलं धन्यं त्वयि प्रभौ खामिनि यत् नव्यतया दोषं न्यायविपरीतत्वदोषं न आप्स्यति न प्राप्स्यति ॥ ६४ ॥ युग्मम् । प्रिये विमानेन गतेन गोचरं,
समीयुषाऽऽभोगसमं समुच्छ्य म् । उदारवृन्दारकवल्लभश्रिया, ___ भवद्भुवा भाव्यमदभ्रवेदिना ॥६५॥ प्रिये. हे प्रिये! विमानेन गोचरं गतेन पृष्टेन सता भवझुवा तव पुत्रेण विमानसदृशेन भाव्यं, किंविशिष्टेन तव पुत्रेण ? १२ विमानेन भोगसमं भोगसदृशं, पक्षे आभोगसमं विस्तारसदृशं
समुच्छ्रयं वृद्धिं समीयुषा प्राप्तेन, पुनः किं० उदारवृन्दारकवल्लभाश्रिया उदारा दातारस्तन्मध्ये वृन्दारका देवसदृशास्तेषां १५ वल्लभाः श्रीलक्ष्मीर्यस्य, पक्षे उदाराः प्रौढा वृन्दारका देवास्तेषां
वल्लभाः श्रीः शोभा यस्य स तेन, पुनः किं० अदभ्रवेदिना
अदभ्रं बहु वेत्ति जानातीति अदभ्रवेदी तेन, पक्षे अदभ्रा १८ वेदिवलमी यस्य स तेन ॥ ६५ ॥
पुराश्रितं मां परिहत्य यन्महीं,
पुनासि पंकेरुहतापदैः पदैः । करत्र हेतुर्मयि दोषसंभवो, विरागता वा चिरसंस्तवोद्भवा ॥ ६६ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org