SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३१७ अलब्धमध्योऽर्थिभिराश्रितो घनः, सुतस्तवाऽत्येष्यति न स्वधारणाम् ॥ ६२ ॥ निभा० हे प्रिये ! त्वं नीरनिधेः समुद्रस्य निभालनात् दर्शनात् ३ रसपूर्तिसंस्पृशां शृंगारादिरसस्पृशां, पक्षे रसस्य पानीयस्य पूरणस्पृशां सरस्वतीनां वाणीनां अधीश्वरः स्वामी अलब्ध. मध्यो गंभीरः घनैः बहुभिर्मेधैर्वा अर्थिभिराश्रितः एवंविधस्तव ६ सुतः खधारणां निजमयादां न अत्येष्यति न अतिक्रमिष्यति ॥ ६२॥ प्रचेतसापि स्फुटपाशपाणिना, कृपाणिना मध्यशयेन जिष्णुना । न राजनीतेः किल कूलमुद्रुजो, न्यवारि मात्स्यः समयो भवन्मयि ॥ ६३ ॥१२ धरातलं धन्यमिदं त्वयि प्रभो, न यनयव्यत्ययदोषमाप्स्यति ।। इति स्ववीचियानेतैरिव स्तुवन् , १५ किमाविरासीत्पुरतोऽस्य वारिधिः ॥ ६४ ॥ . युग्मम् । प्रचे. हे प्रिये ! वारिधिः समुद्रः अस्य तव पुत्रस्य पुरतोऽग्रे इति अमुना प्रकारेण खवीचिध्वनितैः खकल्लोलशब्दितैः स्तुवन्निव किं आविरासीत प्रकटीबभूव, इतीति किं ? स्फुटपाशपाणिना प्रकटपाशहस्तेन प्रचेतसापि वरुणेनापि कृपाणिना खड्गयुक्तेन मध्यशयेन मध्यवर्तिना जिष्णुना नारायणेन किल २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy