________________
टीकया सहितम्
[नवमः
युक् साधूनां पालिः श्रेणिमनोज्ञा पालिर्वा तया युक्तः, किंविशिष्टं रसं? घनागमौरसं घनो बहुरागमः सिद्धान्तः, पक्षे धनागमा ३ वर्षर्तुस्तस्मादौरसं उत्पन्नं ॥ ५९॥
मयैव जातानि मयैव वर्धिता
न्यवाझुखीभूय ममावतस्थिरे । इमानि पद्मानि रमानिवासता
मवाप्य माद्यन्मधुपैश्च सङ्गतिम् ॥६०॥ प्रशाधि विश्वाधिप किं करोम्यहं,
त्वमीशिषे मूढजनानुशासने । इदं वदंस्तत्त्वधियः कृते स्वयं, जडस्तडागः किमुपास्त ते सुतम् ॥ ६१॥
युग्मम् । मयै० हे प्रिये ! स्वयं जडो मूर्खः शीतलो वा तडाग इदं वदन् सन् तत्त्वधियः कृते परमार्थबुद्ध्यर्थं किं ते तव सुतं १५ उपास्त सिषेवे, इदमिति किं ? इमानि पद्मानि मयैव जातानि मयैव वर्धितानि रमानिवासतां लक्ष्म्याऽऽवासत्वं च अन्यत्
माद्यन् मधुपैर्मदोन्मत्तभ्रमरैर्मद्यपैर्वा सङ्गति अवाप्य प्राप्य मम १८ अवाङ्मुखीभूय अवतस्थिरे स्थितानि ॥ ६० ॥ हे विश्वाधिप !
चक्रवर्तिन ! प्रशाधि शिक्षां देहि अहं किं करोमि त्वं मूढजनानुशासने मूर्खजनशिक्षणे ईशिषे समर्थो भवसि ॥६॥ युग्मम् । · निभालनान्नीरनिधेरधीश्वरः, २२ सरस्वतीनां रसपूर्तिसंस्पृशाम् ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org