SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३१५ इतीहितं ज्ञापयितुं किमाययौ, घटः स्फुटत्वं तनयस्य तेऽथवा ॥ ५८ ॥ युग्मम् । ३ सुम० हे प्रिये ! अथवा घटः कुम्भः ते तव तनयस्य इति ईहितं ईप्सितं ज्ञापयितुं स्फुटत्वं प्रकटत्वं आययौ प्राप, इतीति किं ? अहं तव ऋद्धये पुष्टये सुमङ्गलागी भवितुं कारु-६ पदाहतीः कारुणां कुम्भकाराणां चरणाघातान् विसोढवान् सेहे, भूयसीः बहीश्चिराय चिरकालं दण्डान्वितचक्रचालनाः दण्डयुक्तचक्रोपरिचालनं अनुभूय वह्नौ अग्नौ विवेश प्रविष्टः ९ ॥ ५७ ॥ तत् तस्मात् कारणात् हे कृतज्ञ चतुर! मद्दत्तजलैश्वक्रिपदाभिषेचनं चक्रवर्तिपदव्याः अभिषेकत्वं त्वया प्रतीष्यतां अङ्गीक्रियतां ॥ ५८ ॥ युग्मम् । १२ सरः सरोजाक्षि यदैक्षि तेन ते, सुतः सतोषैः सुवयोभिराश्रितः । प्रफुल्लपोपगतो धनागमौ रसं रसं धास्यति साधुपालियुक् ॥ ५९॥ सरः० हे सरोजाक्षि कमललोचने त्वया यत् सरः सरोवर ऐक्षि दृष्टं तेन कारणेन ते तव सुतः सरोवरवत् रसं पानीयं १८ शृङ्गारादिरसं वा धास्यति धरिष्यति, कथंभूतस्तव सुतः सरोवरं च ? संतोषैः सहर्षेः सुवयोभिः प्रधानवयोभिर्मित्रैः प्रधानवयोभिः पक्षिभिर्वा आश्रितः, प्रफुल्लपोपगतः प्रफुल्लया विकखरया पद्मया लक्ष्म्या, पक्षे पौः कमलैरुपगतः साधुपालि-२२ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy