SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१४ टीकया सहितम् [नवमः क्षवर्गेण सह जातु कदाचिदपि आतुर उत्सुको न भव मा भूः ॥ ५४ ॥ भवान् युवा यौवनं प्राप्तः सन् सर्वं बालचापलं मयि ३ निधाय मुक्त्वा गांभीर्य गुणं बिभर्तु धरतु ॥ ५५ ॥ युग्मम् । न्यभालि कुम्भः करभोरु यत्त्वया, ततः सुवृत्तः सुमनश्चयाश्चितः। गतः सुतस्ते कमलैकपात्रता मभङ्गमाङ्गल्यदशां श्रयिष्यति ॥५६॥ न्यभा० हे करभोरु ! मणिबन्धात् कनिष्ठां यावत् करम ९ उच्यते, करभवत् ऊरू यस्याः सा करभोरु तस्याः संबो०, यत्त्वया कुंभो न्यभालि पूर्णकलशो दृष्टः तत् तस्मात् कारणात् ते तव सुतः कुम्भवत् अभङ्गमाङ्गल्यदशां श्रयिष्यति, किंवि१२ शिष्टः तव सुतः कुम्भश्च ? सुवृत्तः सच्चरित्रः सदाकारो वा सुमनश्चयाञ्चितः सुमनसां साधूनां पुष्पाणां वा चयेन समूहेन अञ्चितः पूजितः कमलैकपात्रतां कमलाया लक्ष्म्याः कमलस्य १५ जलस्य वा एकपात्रतां स्थानकत्वं गतः प्राप्तः ॥ ५६ ॥ सुमङ्गलाङ्गी भवितुं तवर्द्धये, विसोढवान् कारुपदाहतीरहम् । विवेश वह्नावनुभूयभूयसी श्चिराय दण्डान्वितचक्रचालनाः॥ ५७ ॥ कृतज्ञ मद्दत्तजलैः प्रतीष्यतां, २१.. ततस्त्वया चक्रिपदाभिषेचनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy