________________
सर्ग: ]
जैनकुमारसंभवं
३१३
विशाल विस्तीर्णकुले वंशे गृहे वा शिरोऽवतंसतां मस्तकमुकुटत्वं गामी गमिष्यति, किंविशिष्टस्तव पुत्रो ध्वजश्च ! कुसङ्गजैः कुसंसर्गजातैः रजोभिः पापैः, पक्षे कुः पृथ्वी तस्याः सङ्गजैः ३ रेणुभिरस्पृष्टवपुरस्पृष्टशरीरः पुनः किं० गुणैर्विनयादिभिस्तन्तुभिर्वा आद्यः समृद्धः, किंविशिष्टे कुले ? विपुलक्षणस्पृशि विपुलो विस्तीर्णक्षण उत्सवो गृहविभागो वा तं स्पृशतीति ६ विपुलक्षणस्पृक् तस्मिन् ॥ ५३ ॥
"
परिस्फुरन्तं दिवि केतुसंज्ञया, निरीक्ष्य मां ते पृतनाग्रवर्तिनम् । विपक्षवर्गः स्वयमेव भक्ष्यते,
युधेऽमुना तद्भव जातु नातुरः ॥ ५४ ॥ बिभर्तु गांभीर्यगुणं युवा भवा
निधाय सर्वं मयि बालचापलम् । इति प्रजल्पन् कलकिंकिणीकणै
रसुं किमागात्प्रियमित्रवत्स वा ॥ ५५॥ युग्मम् | १५ परि० हे प्रिये ! वा अथवा स ध्वजः अमुं तव सुतं प्रियमित्रवत् किं आगात् किं कुर्वन् ! ध्वजः कलकिंकिणीकणैः मनोज्ञक्षुद्रघंटिकाशब्दैरिति जल्पन्, इतीति किं ? ते तव १८ पृतनाग्रवर्तिनं दिवि आकाशकेतुसंज्ञया केतुरिति नाम्ना मां परिस्फुरन्तं निरीक्ष्य दृष्ट्वा विपक्षवर्गः शत्रुसमूहः स्वयमेव भक्ष्यते भग्नो भविष्यति, केतुशब्देन ध्वज उच्यते, धूमकेतुरपीति भावः, तत् तस्मात् कारणात् युधे संग्रामे अमुना विप- २२
Jain Education International
For Private & Personal Use Only
१२
www.jainelibrary.org