SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१२ टीकया सहितम् [नवमः मृगाक्षि मन्येऽबलयापि तत् त्वया, सुदर्शनः स्वप्नपरंपरास्वयम् ।। ५१ ॥ ३ उदि० हे मृगाक्षि ! अहं एवं मन्ये उदिष्यतः उदयं प्राप्तुकामस्य त्वत्तनयस्य तव पुत्रस्य दिवाकरः सूर्यस्तेजसा दीप्तिदरिद्रतां कान्तिरहितत्वं गतः प्राप्तः, तत् तस्मात् कारणात् ६ त्वया अबलयापि अयं सूर्यः स्वप्नपरंपरासु सुदर्शनः सुखेन दृश्यते, इति सुदर्शनो जातः ॥ ५१ ॥ मया नभःस्थालदशेन्धनेन ते, विधातुरारात्रिककर्म भावि तत् । ममोर्ध्वगत्वं च महश्च मृश्यतां, भवद्भुवं वक्तुमिदं स वाययौ ॥५२॥ १२ मया० वा अथवा स रविः भवद्भुवं तव पुत्रं इदं वक्तुं आययौ आयातः । इदमिति किं ? विधातुः ब्रह्मणो मया नभ:स्थालदशेन्धनेन आकाशरूपस्थाले दीपसदृशेन ते तव आरा१५त्रिककर्म भावि भविष्यति, तत् तस्मात्कारणात् मम ऊर्ध्वगतत्वं उच्चैर्गमनतां च अन्यत् महस्तेजो मृश्यतां सह्यतां मृषूच्क्षान्तौ एतस्य धातोः प्रयोगः ।। ५२ ॥ १४ ध्वजावलोकाद्दयिते तवाङ्गजो, रजोभिरस्पृष्टवपुः कुसङ्गजैः। गमी गुणाढ्यः शिरसोऽवतंसतां, कुले विशाले विपुलक्षणस्पृशि ॥ ५३ ॥ २२ ध्वजा० हे दयिते ! ध्वजावलोकात् ध्वजदर्शनेन तवाङ्गजः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy