SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३११ खामिन् ! अहं त्वदाननस्पर्धि त्वदीयमुखस्पर्धाकारि सरोज कमलं ओजसा बलेन तेजसा वा निमीलयिष्यामि, तया तव अधिकश्रिये अधिकशोभायै सितातपत्रतां श्वेतच्छत्रतां श्रयिष्यामि, ३ किंविशिष्टो विधुः? अमुक्तमुक्तामिषतारतारकः न मुक्ता अमुक्ताः, अमुक्ता मुक्तामिषा मुक्ताफलरूपास्तारा मनोज्ञास्तारा तारका येन स० ॥४८॥ त्वं परं आजिभाजिनं संग्रामसेविनं ६ राजकं राजसमूहं रुजन् भञ्जन् सन् समराजशब्द अतः कारणात् माष्टुं स्फेटयितुं न अर्हसि राजशब्देन चन्द्र उच्यते ॥४९॥ युग्मम् । दिशन्विकाशं गुणसअपमिनी मुखारविन्देषु सदा सुगन्धिषु । निरुद्धदोषोदयमात्मजस्तव, प्रपत्स्यते धाम रवेरवेक्षणात् ॥ ५० ॥ दिश० हे प्रिये ! रवेः सूर्यस्य अवेक्षणात् दर्शनात् तव आत्मजस्त्वत्सुतः धाम तेजः प्रपत्स्यते आश्रयिष्यति, किंवि-१५ शिष्टं धाम ? निरुद्धदोषोदयं निरुद्धदोषाया रात्रेः दोषाणां दूषणानां वा उदयो येन तत् , तव आत्मजः । किं कुर्वन् सदा सुगन्धिषु सुपरिमलेषु गुणानां विवेकादीनां सद्मसु स्थानेषु १४ पद्मिनीनां स्त्रीणां मुखारविन्देषु मुखकमलेषु विकाशं दिशन् , रविपक्षे गुणांस्तन्तवः पद्मिन्यः कमलिन्यः ।। ५० ।। उदिष्यतस्त्वत्तनयस्य तेजसा, दिवाकरो दीप्तिदरिद्रतां गतः। १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy