SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१० टीकया सहितम् [नवमः यदिन्दुरापीयत पार्वणस्त्वया, __ ततः सुवृत्तो रजनीधनच्छविः । सदा ददानः कुमुदे श्रियं कला कलापवांस्ते तनयो भविष्यति ॥४७॥ यदि० हे प्रिये ! त्वया यत् पार्वणः पूर्णिमासंबन्धी इन्दु६श्चन्द्रः आपीयत पीयते स्म, किंलक्षण इन्दुः? सुवृत्तो वृत्ताकारः, रजनीधनच्छविः रजन्यां बहुकान्तिः, कुमुदे करवे सदा श्रियं ददानः कलाकलापवान् कलासमूहयुक्तः तत् तस्मात् ९ कारणात् सुवृत्तः सुचरित्रः रजनीधनच्छविः, कुमुदे काः पृथिव्याः मुदे हर्षाय सदा श्रियं शोभां ददानः कलाकलापवान् गीतवाद्यनृत्यगणितपठितलिखितादिभिः द्वासप्ततिकलाभिर्युक्त १२ एवंविधस्ते तव तनयो भविष्यति ॥ ४७ ॥ त्वदाननस्पर्धि सरोजमोजसा, निमीलयिष्यामि तयाधिकश्रिये । तव श्रयिष्यामि सितातपत्रता ममुक्तमुक्तामिषतारतारकः॥४८॥ परं रुजन् राजकमाजिभाजिनं, न राजशब्दं मम माष्टुमर्हसि । . इतीव विज्ञापयितुं रहो रया। दुपस्थितोऽयं तनयं तवाथवा ॥ ४९ ॥ त्व. अथवा अयं चन्द्रस्तव तनयं रह एकान्ते इति विज्ञा२२ पयितुमिव रयात् वेगात् उपस्थित आगतः, इतीति किं ? हे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy