________________
सर्गः] जैनकुमारसंभव यया सा०, तया ततस्तस्मात् कारणात् ते तव सुतो निजकीर्तिसौरभावलीढविश्वत्रितय आत्मीयकीर्तिपरिमलेन व्याप्तत्रिभुवनो भविष्यति ॥ ४४ ॥.
अयं विवादे ननु दानविद्यया,
विजेष्यते नश्चिरशिक्षितानपि । इयं भियतीव सुरद्रुभिर्भव
द्भुवो ददे दण्डपदेऽथवा किमु ॥ ४५ ॥ अयं० अथवा सुरद्रुभिः कल्पवृक्षैः इयं सग् भवद्भुवस्तव पुत्रस्य किमु दण्डपदे ददे दत्ता । उत्प्रेक्ष्यते-इति भिया ईडन ९ भयेनेव, इतीति किं ? अयं तव पुत्रो ननु निश्चितं चिरशिक्षितानपि नो अस्मान् दानविद्यया विजेष्यते 'पुरावेर्ने' इति -सूत्रेणात्मनेपदम् ॥ ४५ ॥
१२ भवान् ममादेशवशो भवेद्वही,
गृहीतदीक्षस्य च नासि ते प्रभुः। वदन्निदं वानुगभृङ्गनिःस्वनैः,
स्मरोऽस्य रोपं व्यसृजत् सजश्छलात् ॥४६॥ भवा० हे प्रिये ! वा अथवा स्मरः कन्दर्पः अस्य तव पुत्रस्य अनुगभृङ्गनिःखनैः पृष्ठस्थभ्रमरशब्दरिदं वदन् स्रजो मालाया १८ च्छलात् रोपं वाणं व्यसृजत् प्रहितवान् , इदमिति किं ? भवान् गृही गृहस्थः सन् ममादेशवशो भवेत् बशेन भवितव्यमिति भावः, च अन्यत् गृहीतदीक्षस्य ते तव अहं प्रभुः समर्थो नामि ॥ ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org