________________
सर्गः ]
जैनकुमारसंभवं
यदिन्दिरा सुन्दरि वीक्षिता ततः, स्त्रियो नदीनप्रभवा अवाप्स्यति । कलाभृदिष्टाः कमलङ्गताः परःशतास्तयैवोपमिताः सुतस्तव ॥ ४१ ॥ यदि० हे सुंदरि ! यत् त्वया इन्दिरा लक्ष्मीर्वीक्षिता दृष्टा, ततस्तस्मात् कारणात् तव सुतः परःशताः शतसहस्राधिकाः ६ तयैव इन्दिरया उपमिता उपमानं प्रापिताः स्त्रियः आप्स्यति प्राप्स्यति, किंविशिष्टाः स्त्रियः नदीनप्रभवाः नदीनो हीनः प्रभव उत्पत्तिर्यासां सा लक्ष्मीः, पक्षे नदीनां इनः खामी ९ समुद्रस्तस्मात् प्रभवो यस्याः सा अत्र अर्थवशात् विभक्ति - परिणामो लक्ष्म्या विशेषणो ज्ञेयः, पुनः किंविशिष्टाः स्त्रियः ? कलाभृदिष्टाः कलाभृतः कलावन्तस्तेषां इष्टा अभीष्टाः लक्ष्मीः १२ पक्षे कलाभृच्चन्द्रस्तस्येष्टा रात्रौ लक्ष्म्याश्चन्द्रमण्डलवासित्वात् कमलङ्गताः कं सुखं अलं अत्यर्थं गताः पक्षे कमलं पद्म गता स्थिता ॥ ४१ ॥
"
बलाधिकत्वाच्चलिते हरेर्हृदि, प्रस भने युधि राजमण्डले । अनेन पद्भ्यां कुशिते कुशेशये,
Jain Education International
३०७
For Private & Personal Use Only
१५
रजोभिः स्थगिते पयोनिधौ ॥ ४२ ॥ सुतस्तवैवास्ति गतिर्ममाधुना, तवेति वा जल्पितुमाययावसौ ।
स्वजातिधौरेयमनुप्रविश्य य
प्रभुप्रसादाय यतेत धीरधीः ॥ ४३ ॥ युग्मम् । २३
१८
२१
www.jainelibrary.org