SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ३०३ तदीशस्वमविलोकनात्वया ऽधिगंस्यते चक्रधरस्तनूरुहः । विशन्ति विद्याः किल यं चतुर्दश, श्रयन्ति रत्नान्यपि संख्यया तया ॥३२॥ तदी० हे प्रिये तत् तस्मात् कारणात् ईदृशखामविलोकनात् त्वया चक्रधरस्तनूरुहः अधिगंस्यते प्राप्स्यते, किल० इति सत्ये ६ चतुर्दशविद्या यं पुत्रं विशन्ति प्रविशन्ति, तया चतुर्दशरूपया संख्यया रत्नान्यपि संश्रयन्ते सेवन्ते ॥ ३२॥ त्वया यदादौ हरिहस्तिसोदरः, पुरः स्थितस्तन्त्रि करी निरीक्षितः। मनुष्यलोकेऽपि ततः श्रियं पुरा, दधाति शातक्रतवीं तवाङ्गजः ॥ ३३॥ १२ त्वया० हे तन्वि त्वया यत् आदौ हरिहस्तिसोदरः ऐरावतस्य बांधवः करी हस्ती पुरः स्थितो निरीक्षितो दृष्टः, तत् तस्मात् कारणात् तवांगजः पुत्रः मनुष्यलोकेऽपि शातक्र-१५ तवीं शतक्रतोरियं शातक्रतवी इन्द्रसम्बधिनी श्रियं लक्ष्मी पुरादधाति, पुरा यावतो वर्तमाना इति सूत्रेण भविष्यति काले वर्तमानो ज्ञेया ॥ ३३ ॥ दिगन्तदेशांस्तरसा जिगीषया भिषेणयिष्यन्तमवेत्य तेऽङ्गाजम् । प्रहीयते स प्रथमं दिशां गजैः, प्रिये किमैरावत एष सन्धये ॥ ३४॥ २२ १८ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy