SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०२ जैनकुमारसंभवं तदर्धवीक्षा विशिनष्टि केशवोद्भवं भवोत्तारमरागवागिव ॥ ३० ॥ १५ ३ प्रदु० हे प्रिये तदर्धवीक्षा तेषां स्वप्नानां अर्धदर्शनं केशवोद्भवं वासुदेवोत्पत्तिं विशिनष्टि कथयति, किं विशिष्टं केशवोद्भवं प्रदुष्टभावारिभयच्छिदं प्रकर्षेण दुष्टभावानां अरीणां ६ चैरिणां भयं च्छिनतीति, किं विशिष्टा तदर्धवीक्षा पुराकृतैः सुकृतैः स्फुटीकृता निशीथे अर्धरात्रे स्फुटीकृता प्रकटीकृता केव अरागवागिव यथा अरागवाग् वीतरागवाणी भवोत्तारं संसारपारं विशिनष्टि, किं विशिष्टा अरागवाक् प्रस्तावात् भव्यानां पुराकृतैः सुकृतैः स्फुटीकृता, निशीथस्योपलक्षणत्वात् अन्येपि सिद्धान्तग्रन्था ज्ञेयाः, किं विशिष्टं भवोत्तारं प्रदुष्ट१२ भावारिभयच्छिदं प्रदुष्टानां क्रोधमानमायालोभमोहादिभावारीणां भयं छिनतीति प्रदुष्टा० ॥ ३० ॥ बलं सुतं यच्छति तच्चतुष्टयी, लतेव जातिः कुसुमं समुज्वलम् । तदेकतां वीक्ष्य तदेकतानया, स्त्रियाङ्गभूमण्डलिकः प्रकल्प्यताम् ॥ ३१ ॥ बलं० तचतुष्टयी तेषां स्वप्नानां चतुष्कं बलं सुतं बलदेवं पुत्रं यच्छति दत्ते, केव जातिर्लतेव यथा जातिर्लता मालती समुज्ज्वलं कुसुमं यच्छति, यतो बलदेवोऽपि समुज्ज्वलः २१ स्यादिति, तदेकतानया तेषु खमेषु एकतानया सावधानया स्त्रिया तदेकतां एकं स्वमं वीक्ष्य मांडलिकोंsङ्गभूः पुत्रः २३ प्रकल्प्यतां चिन्त्यताम् ॥ ३१ ॥ Jain Education International [ नवमः For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy