________________
२९८ जैनकुमारसंभवं [ नवमः
मृगाक्षि वल्लीव घनाघनोदका
द्भवत्यतः स्वमभरानवा रमा। प्रयाति गर्भानुगुणात्प्रथां पुनः,,
पुरोदिता सा सरसीकृताश्रयात् ॥ २२ ॥ मृगा० हे मृगाक्षि मृगलोचने अतो अस्मात् खप्नभरात् ६ स्वप्नसमूहात् नवा रमा लक्ष्मीर्भवति, पुनः पुरोदिता पूर्व उदिता उत्पन्ना सारमा प्रथां विस्तारं प्रयाति, किं विशिष्टात् खप्नभरात् घनाघनोदकात् घनं अघं पापं नुदतीति स्फेटयतीति धना९घनोदकस्तस्मात् घना० । पुनः किं विशिष्टात् खप्नात् गर्भानुगुणात् गर्भसदृशात् यदि उत्तमो गर्भः तदा खप्नापि उत्तमाः स्युरिति, पुनः किं० स्वप्न०, सरसीकृताश्रयात् सरसीकृत १२ आश्रयो येन स सरसीकृताश्रयस्तस्मात् सरसीकृ० । केव
वल्लीव यथा वल्ली घनाघनोदकात् मेघजलात् नवा भवति पुरोदिता सा प्रथां प्रयाति, किं विशिष्टात् घनाघनोदकात् १५ गर्भानुगुणात् अभ्रविद्युहिमगर्भादयस्तत्सदृशात् यादृशो गर्भोऽस्ति तादृशी वृष्टिः स्यात् पुनः किं वि० घनाघनोदकात्
सरस्यां सरोवरे कृतः आश्रयः स्थानं येन तत् सरसीकृताश्रयं ५८ तस्मात् ।। २२॥
अनेन सर्व स्वजनाकुले कुले
नवा न वासं विदधत्यहो गदाः ।
पुरातना अप्युपयान्ति ते शमं, २२ रसायनेनेव विदोषधीभुवा ।। २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org