________________
सर्गः] टीकया सहितम् २९५ विमानमानच्छिदि धाग्नि लीलया,
त्वमिद्धपुण्ये पुनरप्सरायसे ॥ १५ ॥ विना० हे प्रिये काश्चित् स्त्रियः आश्रयं गृहं विना संतत-३ दुःखिताः सत्यः ध्रुवं निश्चितं सुगृहाः पतत्रिणीः सुगृहाख्याः पक्षिणीः स्तुवन्ति, हे इद्धपुण्ये समृद्धपुण्ये त्वं विमानमानच्छिदि विमानमानच्छेदिनि धानि गृहे लीलया अप्सरायसे ६ देवाङ्गनावदाचरसि ॥ १५॥
अखण्डयन्त्या स्वसदःस्थिति सदा,
गतागतं ते सदने वितन्वती। ऋतीयते किं सुकृताश्चिते शची,
तुलां त्वया स्थानमधर्मकं श्रिता ॥१६॥ अख० हे सुकृताञ्चिते पुण्ययुक्ते शची इन्द्राणी त्वया १२ तुलां त्वत्सादृश्यं ऋतीयते गच्छति, अपि तु न गच्छत्येव, किं लक्षणा शची अधर्मकं स्थानं देवलोकं श्रिता आश्रिता, पुनः किं कुर्वती शची ते तव सदने गृहे सदा सर्वदा १५ गतागतं गमनागमनं वितन्वती कुर्वती, किं विशिष्टया त्वया खसदःस्थितिं खस्थानकस्थानं अखण्डयन्त्या ॥ १६ ॥
प्ररूढदोषाकरनानि निर्भर,
कलङ्किनीन्दौ महिषीत्वमीयुषीम् । तमासमुत्पनरुचि कृती नरो,
न रोहिणीमप्युपमित्सति त्वया ॥ १७ ॥ प्ररू० हे प्रिये कृती नरो विचक्षणः पुमान् त्वया रोहिणी- २२
खसदःस्थिति खाती कुर्वती, सिदा सर्वदा १५
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org