SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९४ जैनकुमारसंभवं [ नवमः न० हे प्रिये कासाञ्चन स्त्रीणां कण्टककोटिसङ्कटे कापथे कुमार्गे पदेषु पादुका अपि न स्युः, सुरी भिर्देवी भिस्तव ३ मणिक्षमाचारभवः क्रमक्कमः मणिकुट्टिमचलनः समुत्पन्नः पदश्रमः सुकृतैः पुण्यैः शमं उपशान्ति आप्यते प्राप्यते ॥ १२ ॥ बहुत्वतः काश्चन शायिनां वने, कृशे कुशस्तरकेsपि शेरते । द्युतल्पतूलीष्वपि न प्रिये रतिः, सुमच्छदप्रच्छदमन्तरेण ते ॥ १३ ॥ बहु० हे प्रिये काश्चन स्त्रियो वने वनमध्ये शायिनां बहुत्वतः कृशे दुर्बले कुशश्रस्तरकेऽपि दर्भसंस्तारकेऽपि शेर स्वपन्ति, हे प्रिये धुतल्पतूलीष्वपि स्वर्गशय्यातूलिकाखपि १२ सुमच्छदप्रच्छदं अन्तरेण पुष्पवस्त्रस्योत्तरपटं विना ते न रतिर्न सुखम् ॥ १३ ॥ कदन्नमप्यात्ममनोविकल्पनैमहारसीकृत्य लिहन्ति काथन । चटुक्रियां कारयसि सत्प्रियाः, फलाशने त्वं सुरभूरुहामपि ॥ १४ ॥ " कद ० काश्चन स्त्रियः कदन्नमपि कुत्सितान्नमपि आत्ममनोविकल्पनैर्महारसीकृत्य लिहन्ति आखादयन्ति त्वं सत्प्रया देवाङ्गनाः सुरभूरुहामपि कल्पवृक्षाणामपि फलाशने फलाहारे चटुक्रियां चाटुवचनानि कारयसि ॥ १४ ॥ विनाश्रयं सन्ततदुःखिता ध्रुवं, स्तुवन्ति काश्चित् सुगृहाः पतत्रिणीः । ९ १५ १८ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy