________________
२९३
२९३
सर्गः] टीकया सहितम्
न कोऽधिकोत्साहमना धनार्जने,
जनेषु को वा नहि भोगलोलुपः। कुतः पुनः प्राकृतपुण्यसम्पदं,
विना लता वृष्टिमिवेष्टसिद्धयः ॥१०॥ न० हे प्रिये कः पुमान् जनेषु लोकेषु धनार्जने धनोपार्जने अधिकोत्साहमना अधिकतरोद्यमचित्तो न स्यादपि तु ६ स्यादेव, हि निश्चितं वा अथवा कः पुमान् भोगलोलुपः सुखलम्पटो न स्यादपि तु स्यादेव, प्राक्तनपुण्यसम्मदं विना पुनः कुतः इष्टसिद्धयः स्युः, का इव लता इव यथा लता वयो वृष्टिं विना कुतः स्युः ॥ १० ॥ । न जापलक्षरपि यनिरीक्षणं,
क्षणं समस्येत विचक्षणैरपि। सुराङ्गनाः सुन्दरि तास्तव क्रम
द्वयस्य दास्यं स्पृहयन्ति पुण्यतः॥११॥ न० विचक्षणैरपि यनिरीक्षणं यासां सुराङ्गनानां दर्शनं १५ जापलक्षैरपि क्षणं न समस्येत न प्राप्येत । अशोट् व्याप्तौ इति धातोः प्रयोगः, हे सुन्दरि ताः सुराङ्गनाः देवाङ्गनास्तव क्रमद्वयस्य तव पदद्वयस्य पुण्यतः पुण्यप्रभावादास्यं स्पृहयन्ति ॥ ११ ॥ १८
न कापथे कण्टककोटिसङ्कटे,
पदेषु कासाञ्चन पादुका अपि । मणिक्षमाचारभवः क्रमक्लमः,
शमं सुरीभिः सुकृतस्तवाप्यते ॥ १२॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org