SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९२ जैनकुमारसंभवं [नवमः आपृच्छनं तन्वते कुर्वते, तत् तस्मात् कारणात् पुण्यविलासभाजनं विभासि पुण्यविलासस्य भाजनं पात्रं शोभसे ॥ ७ ॥ कुलं कलङ्केन न जातु पङ्किलं, __ न दुःकृतस्याभिमुखी च शेमुषी। गिरः शरच्चन्द्रकरानुकारिका, ___ गतं सतन्द्रीकृतहंसवल्लभम् ॥ ८॥ निरर्गलं मङ्गलमङ्गसौष्ठवं, __ वदावदीभूतविचक्षणा गुणाः । इदं समग्रं सुकृतैः पुराकृतै ध्रुवं कृतज्ञे तव ढौकनीकृतम् ॥ ९॥ युग्मम् कुलं० हे कृतज्ञे ध्रुवं निश्चितं तव पुराकृतैः पूर्वभवकृतैः १२ पुण्यैरिदं समग्रं दौकनीकृतं उपदीक्रियते स्म, इदमिति किं ? (तत्र) तव कुलं कलकेन जातु कदाचिदपि पङ्किलं कलुषं न वर्त्तते च अन्यत् तव शेमुषी बुद्धिः दुष्कृतस्य पापस्य अभिमुखी १५ न स्यात् , (वर्नते)तते तव गिरो वाण्यः शरच्चन्द्रकरानुकारिकाः शारदचन्द्रकिरणानुकारिण्यो वर्तन्ते, तव गतं गमनं सतन्द्री कृतहंसवल्लभं सतन्द्रीकृता अलसीकृता हंसवल्लभा हंस्यो येन १८ तत् सतन्द्री० वर्तते ॥ ८॥ __तव अङ्गे सौष्ठवं शरीरपाटवं निरर्गलं अर्गलारहितं मङ्गलं वर्चते, तव गुणा माधुयौदार्यादयो वदावदीभूतविचक्षणा २१ वाचालीभूतकवीश्वरा वर्तन्ते ॥ ९॥ युग्मम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy