SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् अथ नवमः सर्गः । तदा तदास्येन्दुसमुल्लसद्वचः, सुधारसास्वादन सादरश्रुतिः । गिरा गभीरस्फुटवर्णया जगत्रयस्य भर्त्रा जगदे सुमङ्गला ॥ १ ॥ तदा तदा तस्मिन्नवसरे जगत्रयस्य भर्त्रा श्रीयुगादीश्वरेण ६ सुमङ्गला गिरा वाण्या जगदे जल्पिता, किं लक्षणया गिरा गभीरस्फुटवर्णया गभीराश्च स्फुटाश्च प्रकटाश्च वर्णा अक्षराणि यस्याः सा तया प्रकटाक्षरया, किं विशिष्टा सुमंगला तदा- ९ स्येन्दुसमुल्लसद्वचः सुधारसाखादनसादरश्रुतिः, तस्य भगवतः आस्येन्दोर्मुखचन्द्रात् समुल्लसत् निर्गच्छत् वचो वचनमेवा - मृतरसास्वादस्तस्मिन् सादरे आदरपरे श्रुती कर्णौ यस्याः सा १२ तदास्येन्दु० ॥ १ ॥ जडाजडिम्ना जडभक्ष्यभोजनादनावृतस्थानशयेन जन्तुना । विलोक्यते यो विकलप्रचारवद्विचारणं स्वमभरो न सोऽर्हति ॥ २ ॥ Jain Education International २८९ जडा० हे सुमङ्गले ! जडाज्जडिना मिलज्जाड्येन जडभक्ष्य- १८ भोजनात् शीतलाहार भोजनात् अनावृतस्थानशयेन अनाच्छादितस्थानशायिना, एवंविधजंतुना मानवेन यः खमभरो विलोक्यते, दृश्यते स खमभरः खम्मसमूहो विकलप्रचारवत् ग्रथिलगमवत् विचारणं नार्हति विचारं कर्तुं न योग्यः स्यात् ॥ २ ॥ जै० कु० १९ For Private & Personal Use Only १५ २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy