SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८८ टीकया सहितम् [अष्टमः दृष्ट्वाद्भुतं वरयितुर्वचनं विनापि, स्वमान् महाफलतयान्वमिमीत सर्वान् ॥६७॥ ३ हग्० सा सुमङ्गला वरयितुः श्रीऋषभदेवस्य वचनं विनापि दृग्युग्मं उल्लसितं दृष्ट्वा, तनुं शरीरं च उच्छ्वसितां दृष्ट्वा, सर्वान् खप्नान् महाफलतया अन्वमिमीत अनुमानेन ज्ञातवती । ६ किंविशिष्टा सुमङ्गला ? चञ्चन्मतिढिमधाम चञ्चन्मतेः प्रसरन्मतेढिमा दृढता तस्या धाम स्थानम् ॥ ६७ ॥ ईहाश्चके सा स्वामिनो मौनमुद्रा९ भेदं तृष्णालासुधायास्तथापि । धत्ते नोत्कण्ठां गर्जिते केकिनी किं, ...मेघस्योनत्या ज्ञातवर्षागमापि ॥ ६८॥ १२ ईहा० सा सुमङ्गला तथापि खामिनः श्रीऋषभदेवस्य ___ मौनमुद्राभेदं ईहाञ्चके वाञ्छितवती । किंलक्षणा सुमङ्गला ? वाक्सुधायाः तृष्णालुः वचनामृतस्य तृषार्ता । मेघस्योन्नत्या १५ज्ञातवर्षागमापि केकिनी मयूरी गर्जिते उत्कण्ठां किं न धत्ते? अपि तु धत्ते ॥ ६८॥ इति श्रीमदञ्चलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचिते १८ श्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचित टीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां अष्टमसर्गव्याख्या समाप्ता ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy