SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं २८५ स्तृणाति आच्छादयति ('स्तृग्य आच्छादने' अस्य धातोः प्रयोगः), तावच्चेतश्चित्तं तमश्छन्नतया विचारे स्फुरत् सत् जाचिकत्वं जङ्घालत्वं त्वरमाणत्वं न अञ्चति न प्राप्नोति ॥६०॥३ आकेवलार्चिःकलनं विशङ्क, वयं न सन्देहभिदां विदध्मः । . को वा विना काञ्चनसिद्धिमुर्वी माधातुमुर्वीमनृणां यतेत ॥ ६१॥ आके० हे प्रिये ! वयं आकेवलार्चिःकलनं केवलज्ञानलाभं यावत् विशकं निःशकं संदेहभिदां न विदध्मः, संदेह-९ भेदं न कुर्मः । वा अथवा कः पुमान् काञ्चनसिद्धिं सुवर्णसिद्धिं विना उर्वी गुर्वी उर्वी पृथ्वीं अनृणां आधातुं कर्तुं यतेत उपक्रमेत ? ।। ६१ ॥ तसान्मनागागमयस्व काल. मतित्वरा विघ्नकरीष्टसिद्धेः । इत्युक्तवांस्त्यक्तमनस्तरङ्गः, क्षणं समाधत्त स मेधिरेशः ॥ ६२॥ तस्मा० तस्मात् कारणात् हे प्रिये ! मनाक् स्तोकं कालं आगमयख प्रतीक्षस्व । अतित्वरा इष्टसिद्धेर्विघ्नकरी अत्यौत्सुक्यं १४ अभीष्टसिद्धेर्विघ्नकृत् वर्तते, इत्युक्तवान् सन् एतावता इत्युक्त्वा स मेधिरेशः मेधिराः प्रज्ञालास्तेषां ईशो भगवान् त्यक्तमनस्तरङ्गः त्यक्तमनोव्यापारः सन् क्षणं समाधत्त समाधि दधौ ॥ १२॥ १२ . . २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy