________________
२८३
सर्गः
जैनकुमारसंभवं समूहानां स्थानदानाय स्थितिकारणाय किं उल्लासं विस्तार इयति याति ॥ ५५ ॥
आनन्दमाकन्दतरौ हृदाल__ वाले त्वदुक्तामृतसेकपुष्टे । रक्षावृति सूत्रयितुं किमङ्ग!,
ममाङ्गमुत्कण्टकतां दधाति ॥५६॥ ६ आनं० अङ्ग इति कोमलामन्त्रणे, हे सुमङ्गले! ममाङ्गं मदीयं शरीरं किं उत्कण्टकतां उद्तरोमाञ्चत्वं ऊर्ध्व कण्टकत्वं वा दधाति ? किं कर्तुं ? मम हृदालवाले हृदयरूपस्थानके आनन्द-९ माकन्दतरौ हर्षसहकारवृक्षे त्वदुक्तामृतसेकपुष्टे त्वदीयवचनामृतसिञ्चनेन प्रौढे सति रक्षावृतिं सूत्रयितुं रक्षायै कण्टकसत्कबुति कर्तुम् ॥ ५ ॥
श्रुत्योः सुधापारणकं त्वदुक्त्या, __ मत्वा मनोहत्य समीपवासात् । पिण्डोललोले इव चक्षुषी मे,
प्रसृत्य तत्संनिधिमाश्रयेते ॥ ५७॥ श्रुत्यो० हे प्रिये ! त्वदुक्त्या त्वदीयवचनेन श्रुत्योः कर्णयोः मनोहत्य मनस्तृप्तिं यावत् , सुधापारणकं अमृताशनं मत्वा । ज्ञात्वा मे मम चक्षुषी लोचने न तत्संनिधिं तयोः कर्णयोः समीपं न आश्रयेते, किंविशिष्टे चक्षुषी ? समीपवासात् प्रत्यासन्नवासतः पिण्डोललोले इव पिण्डोलं भक्तशेषं तत्र लोले लोलुपे ॥ ५७ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org