________________
सर्गः] जैनकुमारसंभवं
२८१ अन्यापि देवता मनसोऽप्यगोचरं वस्तु यतस्ततोऽप्यानीय भक्तस्य दत्त इति ॥ ५० ॥
श्रोतांसि संगोप्य जडानि चेतः,
सचेतनं साक्षि रहो विधाय । संदर्शयन्ती नवसारभावा
निद्रा धुरं छेकधियां दधाति ॥५१॥ ६ श्रोतां० हे प्रिये ! निद्रा छेकधियां धुरं चतुरबुद्धीनां भारं दधाति धरति । किं कुर्वती निद्रा ? जडानि अज्ञानानि श्रोतांसि इन्द्रियाणि संगोप्य आज्ञापयित्वा रह · एकान्ते ९ चेतश्चित्तं सचेतनं साक्षि विधाय कृत्वा नवसारभावान संदर्शयन्ती ॥ ५१ ॥
एकात्मनोनौ परिमुञ्चती मां,
सुखमसर्वस्वमदत्त तुभ्यम् । निद्रा ननु स्त्रीप्रकृतिः करोति,
को वा स्वजातौ न हि पक्षपातम् ॥५२॥ ५५ एका० निद्रा ननु निश्चितं स्त्रीप्रकृतिः तुभ्यं खमसर्वखं अदत्त । किं कुर्वती? एकात्मनोनों आवामपि मां परिमुञ्चती। वा प्रवाहि । निश्चितं-खजातौ पक्षपातं को न करोति ? अपि १८ तु सर्वः करोति ॥ ५२॥
दुर्घोषलालाश्रुतिदन्तघर्षा
दिकं विकर्माप्यत निद्रया यैः। २१ स्वमवजे श्रोत्रपथातिथौ ते,
ते खेदतः खं खलु निन्दितारः ॥ ५३॥ २३
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org