________________
सर्गः]
जैनकुमारसंभवं
२७९
धानस्य । महाशैलतटीं महापर्वततटं भङ्गं भेतुं घटीयत् घटमिव आचरत् वज्रं किं आयस्योपक्रम्य तृणं तृणे ढे च्छिनत्ति ? अपि तु आयसं विनैव ।। ४५ ॥
उद्भूतकौतूहलया रयेणा
जागयथास्तन्मयि मास कुप्यः। कालातिपातं हि सहेत नेत
न कौतुकावेशवशस्त्वरीव ॥ ४६॥ उद्भू हे नाथ ! रयेण वेगेन मया उद्भूनकौतूहलया उत्पन्नकौतुकया त्वं अजागर्यथाः जागरितः, तन्मयि विषये ९ मास्म कुप्यः कोपं मा कार्षीः, हे नेतः खामिन् ! कौतुकावेशवशः कौतुकाक्षिप्तः पुमान् त्वरीव उत्सुक इव कालातेपातं विलम्बं हि निश्चितं न सहेत ॥ ४६॥
श्रुत्वा प्रियालापमिति प्रियायाः,
प्रीतिं जगन्वान् जगदेकदेवः । वाचं मृदुस्वादुतया सुधाब्धि
गोंदिवाप्तप्रभवामुवाच ॥ ४७॥ श्रुत्वा० जगदेकदेवः श्रीयुगादीशो वाच उवाच । किंविशिष्टां वाचं ? मृदुखादुतया सुधाब्धिगर्भात् अमृ समुद्रमध्यात् १० आप्तप्रभवां प्राप्तोत्पत्तिमिव; किंलक्षणो जगदेकदवः ? प्रियायाः सुमङ्गलायाः इति प्रियालापं अभीष्टवचनं श्रुत्वा प्रीतिं जगन्वान् प्राप्तवान् । गम्धातोः कसुप्रत्यये द्विर्वचने गस्य जत्वे 'मोनोम्वोच' २१ इति सूत्रेण मस्य नत्वे सिविभक्तौ जगन्वानिति सिद्धम् ॥४७॥
प्रिये ! किमेतजगदे मदेका
त्मया त्वया हन्त तटस्थयेव ।
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org