SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं .२७७ मनस्तनुक्लेशविवर्जितायां मानसिकशारीरिकक्लेशरहितायाम् ॥ ४०॥ सूक्ष्मेषु भावेषु विचारणायां, मेधा न मे धावति बालिशायाः। त्वमेव सर्वज्ञ! ततः प्रमाणं, रात्रौ गृहालोक इव प्रदीपः ॥ ४१॥ ६ सूक्ष्म० हे नाथ ! बालिशाया मूर्खाया मे मम मेधा बुद्धिः सूक्ष्मेषु भावेषु विचारणायां न घावति, हे सर्वज्ञ ! तत् तस्मात् कारणात् त्वमेव प्रमाणम् । क इव ? प्रदीप इव । यथा प्रदीपो ९ रात्रौ गृहालोके प्रमाणं स्यात् ॥ ४१ ॥ यद्दीपगौरद्युतिभास्कराणां, प्रकाशभासामपि दुर्व्यपोहम् । हादं तमस्तत्क्षणतः क्षिणोति, . वागब्रह्मतेजस्तव तन्वपीश! ॥ ४२ ॥ यद्दी० यत् दीपगौरद्युतिभास्कराणां प्रदीपचन्द्रसूर्याणां १५ प्रकाशभासामपि प्रकटतेजसामपि हार्दै हृदयसंबन्धि तमोsज्धकारं दुर्व्यपोहं दुःखस्फेटनीयं वर्तते, हे ईश खामिन् ! तत् हार्द तमः तव वाग्ब्रह्मतेजः वचनज्ञानसत्कं तेजस्तन्वपि सूक्ष्ममपि क्षणतः क्षणादेव क्षिणोति क्षयं नयति ॥ ४२ ॥ यत्र कचिद्वस्तुनि संशयानाः, सरन्ति यस्य त्रिदशेशितारः। तत्रान्तिकस्थे त्वयि शास्त्रश्वा मानाई ! नाहत्यपरोऽनुयोक्तुम् ॥४३॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy