SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७६ टीकया सहितम् [अष्टमः आसी० हे नाथ ! तदा तस्मिन्नवसरे मे मम वर्मणि शरीरे मारुतादिप्रकोपतः कोऽपि विकारो न आसीत् न अभूत् । ३ त्वयि प्रसन्ने धातवोऽपि पुमर्था इव मिथः परस्परं न हि लब्धबाधा लब्धपीडा वर्तन्ते ॥ ३८ ॥ गदा वपुःकुम्भगदाभिघाता, नासंस्तदा त्वन्निगदागदास्या। अजातशत्रु पतिमाश्रिताया स्त्वां मे कुतः संभव एव भीतेः ॥ ३९ ॥ ९ गदा० हे नाथ ! गदा वातपित्तश्लेष्मरूपा रोगा मम तदा तसिन्नवसरे त्वन्निगदागदाप्या तव निगदो नाम स एव अगद औषधं तस्याप्त्या लाभेन न आसन् । किंविशिष्टा गदाः? १२ वपुःकुम्भगदाभिघाता शरीररूपकुम्भस्य गदासत्कप्रहारसदृशाः, अजातशत्रु गतवैरिणं त्वां पति भर्तारं आश्रिताया मे मम भीतेर्भयस्य संभव उत्पत्तिरेव कुतः स्यात् ? अपि तु न १५कुतोऽपि ॥ ३९ ॥ एवं मुखाखादरसर्जितायां, - मनस्तनुक्लेशविवर्जितायाम् । १८. स्वमैर्बभूवे मयि यैस्तदर्थ मीमांसया मांसलय प्रमोदम् ॥ ४०॥ ___एवं० हे नाथ ! यैः स्वमैर्मयि बभूवे तदर्थमीमांसया २१ तेषामर्थस्य विचारणया हर्ष मयि विषये मांसलय पोषय । किंविशिष्टायां मयि ? एवं मुखावादरसैर्जितायां एवं पूर्वोक्त२३ प्रकारेण सुमुखस्याखादरसेन बलिष्ठायां, पुनः किंविशिष्टायां ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy