________________
सर्गः जैनकुमारसंभवं
२७५
२७५ आकूतमक्षिध्रुवचेष्टयैव, __हार्द विबुद्ध्याखिलकर्मकारी। न खैरचारीति परिच्छदोऽपि,
मनो दुनोति स तदा मदीयम् ॥ ३६॥ आकू० हे नाथ! तदा तस्मिन्नवसरे परिच्छदोऽपि परिवारोऽपि खैरचारी खच्छन्दचारी, इति कारणात् मदीयं । मनो न दुनोति स्म, किंलक्षणः परिच्छदः ? अक्षिभ्रुवचेष्टयैव दृष्टिभ्रुववालनयैव हार्दै हृदयसंबन्धि आकूतं अभिप्राय विबुध्य ज्ञात्वा अखिलकर्मकारी समस्तकार्यकृत् ॥ ३ ॥
अपि द्वितीयाद्वितये विभज्य,
चित्तं च वित्तं च समं समीचा । त्वया न सापत्यभवोऽभिभूति
लवोऽपि मेऽदत्त तदानुतापम् ॥ ३७॥ अपि० हे नाथ ! तदा तस्मिन्नवसरे सापल्यभवः सपल्या उत्पन्नो अभिभूतिलवोऽपि पराभवलेशोऽपि मे मम अनुतापं १५ विषादं न अदत्त । केन हेतुना ? त्वया द्वितीयाद्वितयेऽपि कलत्रद्विकेऽपि चित्तं च पुनर्वितं समं समकालं विभज्य विभागीकृत्य समीचा सम्यग् अञ्चता "अञ्चौ गतौ च" समञ्चतीति। किपि लोपे “सहसमः सध्रिपमी" सम्यक् वर्तमानेन ॥ ३७ ॥
आसीन मे वर्मणि मारुतादि
प्रकोपतः कोऽपि तदा विकारः। त्वयि प्रसन्ने न हि लब्धबाधा, मिथः पुमर्था इव धातवोऽपि ॥ ३८॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org