________________
सर्गः
जैनकुमारसंभवं
२७३ त्रात हे त्रातः ! हे रक्षक! त्वयि त्राणपरे रक्षणतत्परे सति त्रिधाऽपि आध्यात्मिकाधिभौताधिदैविकमेदं त्रिविधं वाग्मनोऽङ्गैश्चः कृतं देवमानुषतिर्यकृतं वा दुःखं मदीयं मुदं हर्ष ३ न मनाति नास्फेटयति । यं हेतुं येन हेतुना अहमत्रायासिषं आयाम् तत् अहं मायामुक्तं कपटरहितं ब्रुवे, त्वं सावधानः शृणु ॥ ३१॥ क्रियां समग्रामवसाय सायं
तनीमनीषद्धतिरत्र रात्रौ । अशिश्रियं श्रीजितदिव्यशिल्पं,
तल्पं खवासौकसि विश्वनाथ ? ॥ ३२ ॥ क्रियां० हे विश्वनाथ ! अहं सायंतनी संध्यासंबन्धिनी समग्रां क्रियां अवसाय समाप्य अत्र रात्रौ खवासौकसि १२ आत्मीयवासभवने, तल्पं शयनीयं अशिश्रियं आश्रितवती, किंविशिष्टं तल्पम् ? श्रीजितदिव्यशिल्पं श्रिया शोभया जितं दिव्यं शिल्पं विज्ञानं येन तत् श्रीजित० । किंलक्षणाऽहम् ? १५ अनीषद्धृतिर्बहुसमाधियुक्ता ॥ ३२ ।।
त्वन्नाममन्त्राहितदेहरक्षा
निद्रां स्वकालप्रभवामवाप्य ! खमानिभोक्षप्रमुखानदर्श,
चतुर्दशादर्शमुख ! क्रमेण ॥ ३३ ॥ त्वन्ना० हे आदर्शमुख ! आदर्शो दर्पणः माङ्गल्यकरत्वात् तत्सदृशं मुखं यस्य स तस्य संबोधने । अहं त्वन्नाममन्त्राहित-२२
जै० कु. १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org