________________
२७२
जैनकुमारसंभवं
तदा तदाकृष्टमिवैत्यद्रादपि प्रमोदं दिशति त्वयीशे ॥ २९ ॥
२२
३ अन्यै० हे नाथ ! यदा यस्मिन्नवसरे मे मम मनः यत् आसेवनकं नयनानन्दकारि वस्तु एति गच्छति । किंलक्षणं वस्तु ? अन्यैरनीषल्लभं दुःप्रापम् । तद्वस्तु त्वयि ईशे समर्थे ६ सति तदा तस्मिन्नवसरे दूरादपि आकृष्टमिव एत्य आगत्य मे मम मनः प्रमोदं दिशति ददाति ॥ २९ ॥
प्रमार्ष्टि हाग्रमृभुर्नभखान्, पिपर्ति कुम्भान् सुरसिन्धुरद्भिः । भक्ष्यस्य चोपस्कुरुतेऽशुमालीदास्योप नेशे त्वयि दुर्विधा मे ॥ ३० ॥
१२ प्रमा० हे नाथ ! त्वयि ईशे सति मे मम दास्योऽपि न दुर्विधा न दुःस्था न दुःकर्मकार्यो वर्तन्ते । नभखान् ऋभुर्वा - देवता मे मम हाग्रं गृहाङ्गणं प्रमार्ष्टि तृणकाष्ठकचवरादि १५ परत्र करोति । सुरसिन्धुः गङ्गा अद्भिः पानीयैः कुम्भान् पिपर्ति पूरयति । च पुनरंशुमाली सूर्यः भक्ष्यस्योपस्कुरुते शालिसूपपकान्नघृतादिभोज्यं संस्करोति । भक्ष्यस्यात्पन्ना षष्ठी - करोतेः ३८ प्रतियले इति सूत्रेण ज्ञेया ॥ ३० ॥
त्रातस्त्वयि त्राणपरे त्रिधापि, दुःखं न मनाति मुदं मदीयाम् ।
[ अष्टमः
यं हेतुमायासिषमत्र माया
मुक्तं ब्रुवे तच्छृणु सावधानः ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org