SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् २७१ मध्ये प्रविश्य रोषादिव द्रवीभवति, गलत्येव । कासु सतीषु ? अमराङ्गनासु देवाङ्गनासु खर्भूषणैरेव वर्गसत्काभरणैरेव मदङ्गशोभा संभावयन्तीषु कुर्वन्तीषु सतीषु ॥ २६॥ पयः प्रभो ! नित्यममर्त्य धेनोः, श्रीकोशतो दिव्यदुकूलमाला। पुष्पं फलं चामरभूरुहेभ्यः, सदैव देवैरुपनीयते मे ॥ २७ ॥ पयः० हे प्रभो हे स्वामिन् ! देवैर्नित्यं निरन्तरं अमर्त्यधेनोः पयो दुग्धम् , श्रीकोशतः श्रियो लक्ष्याः कोशः श्रीकोशः९ तस्मादिव्यदुकूलमाला, च अन्यत् , अमरभूरुहेभ्यः कल्पवृक्षेभ्यः पुष्पं फलं सदैव मे मम उपनीयते ढौक्यते ॥ २७ ॥ भोगेषु मानव्यपि मानवीनां, खामिन्न बध्नामि कदाचिदास्थाम् । अहं त्वदीयेत्यनिशं सुरीभिः, स्वर्भोगभङ्गीष्वभिकीकृताङ्गी ॥ २८॥ १५ भोगे० हे स्वामिन् ! अहं मानवी मनुष्यमात्रापि मानवीनां भोगेषु कदाचिदास्थां न बध्नामि । अहं त्वदीया त्वत्सत्का इति कारणात् , सुरीभिर्देवाङ्गनाभिरनिशं निरन्तरं स्वर्भोग-१८ भङ्गीषु देवलोकसत्कभोगविच्छित्तिषु अभिकीकृताङ्गी कामुकीकृतशरीरा वर्ते ॥ २८॥ अन्यैरनीषल्लभमेति वस्तु, यदा यदासेवनकं मनो मे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy