SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७० जैनकुमारसंभवं [अष्टमः त्वत्संगमात्संगमितेन दिव्य पुष्पैर्मदङ्गेन विदूरितानि । वैराग्यरङ्गादिव पार्थिवानि, ___ वनेषु पुष्पाण्युपयान्ति वासम् ॥ २४ ॥ त्वत्सं० हे नाथ ! पार्थिवानि पृथिव्यां जातानि पुष्पाणि वैराग्यरङ्गादिव वनेषु वासं उपयान्ति । किंविशिष्टानि पुष्पाणि ? त्वत्संगमात् दिव्यपुष्पैः संगमितेन मिलितेन मदङ्गेन विदूरितानि दूरीकृतानि ॥ २४ ॥ अङ्गेषु मे देववधूपनीत दिव्याङ्गरागेषु निराश्रयेण । नाथानुतापादिव चन्दनेन, भुजङ्गभोग्या स्वतनुर्वितेने ॥ २५ ॥ ___ अङ्गे हे नाथ ! चन्दनेन खतनुरात्मीयशरीरं भुजङ्ग भोग्या सर्पवेष्टिता वितेने कृता । उत्प्रेक्ष्यते-अनुतापादिव पश्चा१५त्तापादिव । किंविशिष्टेन चन्दनेन ? मे मम अङ्गेषु निराश्रयेण आश्रयरहितेन । किंविशिष्टेषु अङ्गेषु? देववधूपनीतदिव्याङ्ग रागेषु देवाङ्गनादौकितदिव्यविलेपनेषु ॥ २५ ॥ १८ वर्भूषणैरेव मदङ्गशोभां, संभावयन्तीष्वमराङ्गनासु । रोषादिवान्तर्दहनं प्रविश्य, द्रवीभवत्येव भुवः सुवर्णम् ॥ २६ ॥ २२ स्वर्भू० हे नाथ! भुवः पृथिव्याः सुवर्ण अन्तर्दहनं दहनस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy