________________
सर्गः] टीकया सहितम् वक्तुं पुरस्तस्य तव क्षमेऽह
महो महासुर्महिलासु मोहः ॥ २१ ॥ न० हे नाथ ! नाकनाथा अपि इन्दा अपि यं त्वां। नुवानाः स्तुवन्तः सन्तो विबुधेशता देवेशत्वं पक्षे विद्वदीशत्वं । तस्या गवं अभिमानं न वहन्ति, तस्य तव पुरोऽये अहं वक्तुं जल्पितुं क्षमा शक्नोमि, अहो इत्याश्चर्ये महिलासु स्त्रीषु मोहो महासुर्महाप्राणो वर्तते ॥ २१ ॥ स्त्रीमात्रमेषासि तव प्रसादा
देवादिदेवाधिगता गुरुत्वम् । राज्ञो हृदि क्रीडति किं न मुक्ता
कलापसंसर्गमुपेत्य तन्तुः ॥ २२ ॥ स्त्री० हे आदिदेव ! एषा अहं स्त्रीमात्रं तव प्रसादादेव १२ गुरुत्वं अधिगता प्राप्तास्मि, तन्तुर्मुक्ताकलापसंसर्ग उपेत्य प्राप्य राज्ञो हृदि किं न क्रीडति, अपि तु क्रीडत्येव ।। २२ ।।
मां मानवी दानववैविध्वो,
याचन्ति यत्प्राञ्जलयोऽङ्गदास्यम् । सोऽयं प्रभावो भवतो न धेयं,
भसापि भाले किमु मत्रपूतम् ॥ २३॥ १८ मां० दानववैरिवध्वो देवाङ्गनाः प्राञ्जलयो योजिताञ्जलयः सत्यो मां मानवीमपि यत् अङ्गदास्यं अङ्गस्य शरीरस्य दास्यं याचन्ति, सोऽयं भवतस्तव प्रभावो वर्तते । भस्मापि रक्षापि मन्त्रपूतं सत् भाले ललाटे किं न धेयं ? अपि तु धार्यमेव ।।२३।। २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org