________________
२६८
जैनकुमारसंभवं [अष्टमः पीयूषं अभिनवं पयस्तस्य पालेयः पतिगतो रसो यस्याः सा ताम् ॥ १८॥ ३ पातुस्त्रिलोकं विदुषस्त्रिकालं,
त्रिज्ञानतेजो दधतः सहोत्थम् । खामिन्न तेऽमि किमप्यलक्ष्यं,
प्रश्नस्त्वयं स्नेहलतैकहेतुः ॥ १९ ॥ पातु० हे खामिन् ! अहं ते तव किमपि अलक्ष्यं अज्ञेयं न अवैमि न जाने । त्रीण्यपि विशेषणानि भगवतो ज्ञेयानि । किं९ विशिष्टस्य तव ? त्रिलोकं पातुस्त्रिभुवनं रक्षतः, त्रिकालं-विदुषः अतीतानागतवर्तमानकालान् ज्ञातवतः, सहोत्थं त्रिज्ञानतेजो मतिश्रुतावधिज्ञानसत्कं तेजो दधतः बिभ्रतः। तु पुनरयं प्रश्नः १२ लेहलतैकहेतुः स्नेहलतायाः स्नेहवार्ताया एकहेतुर्वर्तते ॥१९॥
निद्ध्यायतस्ते जगदेकबुद्ध्या,
__मय्यस्ति कोऽपि प्रणयप्रकर्षः। १५ भृशायते चूतलताविलासे,
साधारणः सर्ववने वसन्तः ॥२०॥ निघ्या. हे खामिन् ! ते तव जगत् विश्वं एकबुद्ध्या १८ निध्यायतः पश्यतः सतो माय विषये कोऽप्यपूर्वः प्रणय
प्रकर्षः स्नेहसमूहोऽस्ति । वसन्तः सर्ववने साधारणः सदृशो वर्तते, परं चूतलता सहकारवल्ली तस्या विलासे भृशायते २३ अधिकः स्यात् ॥ २० ॥
न नाकनाथा अपि यं नुवन्तो, २३ वहन्ति गर्व विबुधेशतायाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org