________________
२६४
जैनकुमारसंभवं
[ अष्टमः
मध्ये कृतावासाम् । निशि रात्रौ प्रबुद्धां जागरितामपि पद्मिनीं कमलिनीं पक्षे पद्मिनीं स्त्रीम् । किंवि० ? आत्तमौनामपि गृहीतमौनामपि स्फुरदोष्ठदृष्ट जिजल्पिषया स्फुरद्भ्यां ओष्ठाभ्यां दृष्टा जिजल्पिषा जल्पनेच्छा यस्याः सा तां स्फुरदोष्ठ० ॥ ९ ॥ सुमङ्गलां मङ्गलकोटिहेतुनैतुर्निदेशस्त्रिदशेशमान्यः । निवेशयामास निवेशयोग्ये, भद्रासने भद्रमुखीमदूरे ॥ १० ॥
सुम नेतुर्निदेशः श्रीऋषभदेवस्यादेशो भद्रमुखीं कल्याणकृन्मुख सुमङ्गलां अदूरे प्रत्यासन्ने निवेशयोग्ये उपवेशना भद्रासने निवेशयामास, उपवेशयति स्म । किंविशिष्टो १२ निदेशः ? मङ्गलकोटिहेतुर्दधिदूर्वाक्षत चन्दनादिमाङ्गलिककोटेः कारणम्, पुनः किं० : त्रिदशेश मान्यः सौधर्मेन्द्रादिचतुःषष्टिदेवेन्द्राणां मान्यः ॥ १० ॥ दिगङ्गनाङ्गेषु सिताङ्गरागभङ्ग भजद्भिर्दशनांशुजालैः । ज्योत्स्त्रीयशो जापयता जिनेन,
९
१३
तया रजन्या जगदेऽथ जाया ॥। ११ ॥
दिग० अथानन्तरं जिनेन श्री ऋषभेण जाया सुमङ्गला जगदे | वशमांशुजालैः दन्तकिरणसमूहैः तया रजन्या ज्योत्स्त्री पूर्णिमा तस्या यशः कीर्तिः यशो जापयता जयाय प्रयुञ्जता । 'निजि अभिभवे' जिवातोः कारितान्तस्य प्रयोगः । किं कुर्वद्भिः २३ दशनांशुजालैः ! दिगङ्गनानां दिक्स्त्रीणां अङ्गेषु शरीरेषु
२१
1
१८
·
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org