SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीकया सहितम् २६३ चित्रं ० स भगवान् सरसी रसाढ्यः पक्षे सरसी महासरः चित्रं आश्चर्यं रराज । काभिः ? वधूवऋविधूत्थवल्गुवाक्कौमुदीभिः, वधूः सुमङ्गला तस्या वक्रविधूत्थाः मुखचन्द्रसमुत्पन्ना वल्गवः ३ मनोज्ञाः वाचो वाण्यस्ताभिरेव कौमुदीभिः चन्द्रज्योत्स्नाभिः । किंविशिष्टो भगवान् ? श्रीसंग मैकप्रतिभूप्रबोध लीलोल्लसल्लोचननीरजन्मा श्रीलक्ष्मीः तस्याः संगमे एकप्रतिभू-समाने प्रबोधलीलया उल्लसन्ती लोचने एव नीरजन्मनी कमले यस्याः सा ॥ ७ ॥ ६ निविष्टवानिष्टकृपः स पूर्वकायेन शय्यां सहसा विहाय । क्षणं धृतोष्मामिदमङ्गसङ्ग भङ्गानुतापादिव देवदेवः ॥ ८ ॥ निवि० इष्टकृपः अभीष्टकरुणः स देवदेवो भगवान् पूर्वकायेन अन्यशरीरेण शय्यां सहसा औत्सुक्येन विहाय मुक्त्वा निविष्टवान् उपविष्टः । किंलक्षणां शय्याम् ? इदमङ्गसङ्ग - १५ भङ्गानुतापात् अस्य भगवतः अङ्गसङ्गस्य भङ्गसत्कपश्चात्तापात् क्षणं धृतोष्मामिव धृतसन्तापामित्यर्थः ॥ ८ ॥ पुरः स्थितामप्युषितां हृदन्तनिशि प्रबुद्धामपि पद्मिनीं ताम् । अप्यात्तमौनां स्फुरदोष्टदृष्टजिजल्पिषामैक्षत लोकनाथः ॥ ९ ॥ पुरः ० लोकनाथः श्रीयुगादीशः तां सुमङ्गलां ऐक्षत दृष्टवान् । किंविशिष्टां ताम् ? पुरोऽग्रे स्थितामपि हृदयान्तरुषितां हृदय- २३ २१ Jain Education International १२ For Private & Personal Use Only १८ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy