SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६२ जैनकुमारसंभवं [अष्टम: यथा वाग्भट्टालंकारे 'त्वदारितारितरुणीश्वसितानिलेने'त्यादिकेनेव । सांयात्रिकेणेव प्रावहणिकेनेव । यथा सांयात्रिकेण नीवी ३ मूलद्रव्यं नियम्य पथि विकीर्ण धनं दृढीक्रियते ॥४॥ भर्तुः प्रमीलासुखभङ्गभीति__ स्तामेकतो लम्भयति स धैर्यम् । स्वमार्थशुश्रूषणकौतुकं चा न्यतस्तरां स्त्रीषु कुतः स्थिरत्वम् ॥५॥ भर्तुः० भर्तुः श्रीऋषभदेवस्य प्रमीलासुखं निद्रासुखं ९ तस्य भङ्गभीतिरेकतस्तां सुमङ्गलां धैर्य लम्भयति स्म । च पुनः, खप्नार्थशुश्रूषणकौतुकं अन्यतस्तरामौत्सुक्यं प्रापयति स्म । स्त्रीषु स्थिरत्वं स्थैर्य कुतः स्यात् ? ॥ ५ ॥ १२ क्षोभो भवन्मा स सुषुप्तिहप्ते, नाथेऽत्र तारस्वरया ममोक्त्या । मेधाविनी तज्जयजीवनन्दे१५ त्युदीरयामास मृदुं गिरं सा ॥६॥ क्षोभो० तारखरया महाशब्दया ममोक्त्या अत्र अस्मिन्नाथे सुषुप्तिः सुखखापस्तद्विषये तृप्ते क्षोभो मारम भवत् । तत् १८ तस्मात् कारणात् सा सुमङ्गला जयजीवनन्देति मृदं सुकोमलां गिरं उदीरयामास प्रोक्तवती ॥ ६ ॥ चित्रं वधूवऋविधूत्थवल्गु वाकौमुदीभिः सरसी रराज । श्रीसङ्गमैकप्रतिभूप्रबोध लीलोल्लसल्लोचननीरजन्मा ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy