________________
२६० जैनकुमारसंभवं
[अष्टमः व्यपगमेन अभावेन ऋजु सरलं यथा भवति तथा स्फारिताभ्यां विस्तारिताभ्याम् । पुनः किंवि० नाथं! लवणिमसुधाम्भो३निधिं लावण्यसुधाया अम्भोनिधिं समुद्रम् ॥ ७७ ॥
इति श्रीअञ्चलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचिते श्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचितायां टीकायां
श्रीमाणिक्यसुन्दरसूरिशोधितायां सप्तम
सर्गव्याख्या समाप्ता ॥ ७ ॥
र
अथ अष्टमः सर्गः। अथ प्रसन्नप्रभुवऋवीक्षा। पीयूषपानोत्सवलीनचेताः । विश्रम्य मृद्वी क्षणमंहिचार
जन्मक्लमच्छेदमसौ विवेद ॥१॥ अथ० अथानन्तरं मृद्वी सुकोमला असौ सुमङ्गला क्षणं विश्रम्य अंहिचारजन्मक्लमच्छेदं अंहिचारजन्मनः चरण१५ संचरणसमुत्पन्नस्य क्लमस्य श्रमस्य च्छेदं विवेद प्राप । किंलक्षणा
सुमङ्गला ? प्रसन्नप्रभुवक्रवीक्षापीयूषपानोत्सवलीनचेताः प्रसन्नस्य
प्रभोः वक्रस्य वीक्षा अवलोकनमेव पीयूषं अमृतं तस्य पानो१८ त्सवलीनचेतश्चित्तं यस्याः सा प्रस० ॥१॥
ये श्वासवाता वदनादमान्त
इवोद्भवन्ति स्म रवेण तस्याः। ते स्वास्थ्यमापत्सत वहिदिश्य
वायोर्विरामे जलधेरिवापः ॥ २॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org