________________
सर्गः] टीकया सहितम्
२५९ पल्यं० जिनेन्द्रः श्रीऋषभचन्द्रः एनां सुमङ्गलां मुदा हर्षेण कुमुद्वतीं कुमुदिनीमिव चक्राणः कृतवान् । किंविशिष्टो जिनेन्दुः ? पल्यके व्योम्नीव आकाशवत् लीनः सुप्तः ।३ किंलक्षणे पल्यंके ? व्योम्नीव विशदविकीर्णपुष्पतारे, विशदानि निर्मलानि विकीर्णानि विक्षिप्तानि चम्पकशतपत्रविचकिलादिपुष्पाणि तैस्तारे मनोज्ञे, पक्षे विशद विकीर्णपुष्पवत्तारा यत्र ६ तत्र० । पुनः किंलक्षणे ? प्रथिमगुणैकधाम्नि प्रथिमगुणस्य विस्तारगुणस्यैकधाग्नि एकगृहे । किंलक्षणां सुमङ्गलाम् ? उत्फुल्लेक्षणकुमुदाम् , उत्फुल्ले विकखरे ईक्षणे लोचने एव कुमुदे यस्याः९ सा ताम् । कोऽर्थः ? यथा चन्द्रः कुमुदिनी खदर्शनेन विकासयति तथा जिनेन्दुरपि सुमङ्गलां मोदयामासेति भावः ॥ ७६॥
तोयााया इव परिचयान्मुक्तशोपं स्वतन्वाः, पौष्पं तल्पं प्रति परिमलेनोतमीभवन्तम् । दृग्भ्यां व्रीडाव्यपगमऋजुस्फारिताभ्यां प्रसुप्तं, दृष्ट्वा नाथं लवणिम बुधाम्मोनिधि पिप्रिये सा॥ ७७॥ १५
तोया० सा देवी सुमङ्गला दृग्भ्यां लोचनाभ्यां नाथं खामिनं प्रसुप्तं दृष्ट्वा पिप्रिये प्रीतिं प्राप । किं कुर्वन्तं नाथम् ? पौष्पं तल्पं प्रति पुष्पशय्यां प्रति परिमलेन उत्तमणीभवन्तं परिम-१८ लदानं कुर्वन्तम् । किंविशिष्टं पौष्पं तत्पम् ? जलक्लिन्नं वस्त्रं तोया उच्यते । तोयााया इव तोयासदृशायाः खतन्वा निजशरीरस्य परिचयात् मुक्तशोषं शोषरहितम् । किंलक्षणाभ्यां हग्भ्याम् ? ब्रीडाव्यपगमऋजुस्फारिताभ्यां ब्रोडाया लज्जाया- २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org