________________
२५८
जैनकुमारसंभवं
[ सप्तमः
सुमङ्गला ? आलिजन्मनः सखीभ्यः समुत्पन्नात् दुर्निमित्तात् अमङ्गलरूपात् क्व गन्तासि त्वं कुत्र गमिष्यसि इत्यालापात् ३ ईदृग्जल्पात् भीता भयं प्राप्ता । इतीति किम् ? "छीए विभग्गे कमणिए कंटए य भग्गेय । दिट्ठे सप्पविराले नहि गमणे सुंदरं होई” ॥ १ ॥ इति वचनात् अपशकुनभयेन ६ सखीनामकथयित्वैव एकाकिनी ययाविति भावः ॥ ७४ ॥
रत्नप्रदीपरुचिसंयमितान्धकारे, मुक्तावचूलकमनीय वितानभाजि ।
सा तत्र दिव्यभवने भुवनाधिनाथं, निद्रानिरुद्धनयनद्वयमालुलोके ॥ ७५ ॥
रत्न० सा सुमङ्गला तत्र तस्मिन् दिव्यभवने भुवनाधिनाथं १२ निद्रानिरुद्धनयनद्वयं निद्रया मुद्रितलोचनयुग्मं आलुलोके ददर्श । किंविशिष्टे दिव्यभवने ? रत्नप्रदीपरुचिसंयमि तान्धकारे रत्नसत्कप्रदीपानां रुचिभिः कान्तिभिः संयमितं लक्षणया १५ निराकृतं अन्धकारं यत्र तस्मिन् सुप्रकाशे इत्यर्थः । पुनः किं.विशिष्टे ? मुक्तावचूलकमनीयवितानभाजि मुक्तावचूलैः मौक्तिकझुम्बनकैः कमनीयान् मनोज्ञान् वितानान् चन्द्रोद्द्योतान् १८ भजतीति भाक् तस्मिन् ॥ ७५ ॥
१२
पल्यङ्के विशदविकीर्णपुष्पतारे, व्योम्नीव प्रथिमगुणैकधानि लीनः । उत्फुल्लेक्षणकुमुदां मुदा जिनेन्दुचाणः सपदि कुमुद्वतीमिवैनाम् ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org