SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् २५७ इच्छन्त्या विजनं याने, तस्या नाऽभवतां प्रिये । नूपुरे रूपरेखाया, आरावैः स्तावकैः पदोः ॥ ७१॥ इच्छ० तस्याः सुमङ्गलाया नूपुरे प्रिये अभीष्टे नाभवताम् । ३ किं कुर्वत्याः ? याने गमने विजनं एकान्तं इच्छन्त्याः । किंलक्षणे नूपुरे ? आरावैः शब्दैः सुमङ्गलासंबन्धिनोः पदोः चरणयो रूपरेखायाः स्तावकैः स्तुतिकारकैः ॥ ७१ ॥ ६ अकाले मञ्जु सिञ्जाना, मेखला मे खलायितम् ।। अधुनैव विधात्री किमिति सा दध्युषी क्षणम् ॥७२॥ अका० सा सुमङ्गला क्षणं इति दध्युषी ध्यातवती । इतीति ९ किम् ? मे मम मेखला खलायितं दुर्जनाचरितं अधुनैव किं विधात्री करिष्यति ? किं कुर्वाणा मेखला ? अकाले मञ्ज सिञ्जाना मञ्जु मनोज्ञं सिञ्जाना अव्यक्तं शब्दं कुर्वाणा ॥७२॥ १२ मौनं भेजे करस्पर्शसंकेताद्वलयावलिः।। विदुषीव तदाकूतं, तरसा तत्प्रकोष्ठयोः ॥७३॥ मौनं० तत्प्रकोष्ठयोस्तस्याः सुमङ्गलायाः प्रकोष्ठयोः कला-१५ चिकयोर्वलयावलिः करस्पर्शसंकेतात् मौनं भेजे । किं कुर्वती वलयावलिः ? तरसा वेगेन तदाकूतं तस्याः सुमङ्गलायाः आकृतं खान्ताभिप्रायं विदुषी विज्ञातवती ॥ ७३ ॥ दुनिमित्तात्क गन्तासीत्यालापादालिजन्मनः । भीता मन्दपदन्यासं, साऽभ्यासं भर्तुरासदत् ।।७४॥ दुर्नि० सा सुमङ्गला मन्दपदन्यासं यथा भवति तथा भर्तुः श्रीऋषभदेवस्य अभ्यासं समीपं आसदत् प्राप्ता । किंलक्षणा २२ जै० कु० १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy