SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [ सप्तमः धृतवती, स्वभावभङ्गे स्वीयसहजत्यागे न श्रेयः कल्याणं, इति कारणात् सा अभर्तृका भर्तृरहिता बालकुमार्येव ३ अभूत् ।। ६७ ॥ तज्जगद्गुरुरेवैत-द्विचारं कर्तुमर्हति । जात्यरत्नपरीक्षायां, बालाः किमधिकारिणः॥६८॥ * तज्ज० तत् तस्मात् कारणात् जगद्गुरुः श्रीयुगादीश्वर एवैतद्विचारं एतेषां चतुर्दशानां स्वप्नानां विचारं कर्तुं अर्हति योग्यः स्यात् , जात्यरत्नपरीक्षायां बालाः शिशवः किं अधि९ कारिणः स्युः, अपि तु नैव ॥ ६८ ॥ अथालसलसबाहुलता तल्पं मुमोच सा । . सौषुप्तिकैरिव प्रीयमाणा क्वणितभूषणैः ॥ ६९ ॥ १२ अथा० अथानन्तरं अलसलसराहुलता आलस्येन प्रसर द्भुजवल्ली सती सा सुमंगला तल्पं शयनीयं मुमोच । किंवि. शिष्टा सुमंगला ? कणितभूषणैः कणितैः शब्दितैः भूषणैरा१५ भरणैः सौषुप्तिकैरिव सुषुप्तं सुष्टुं सुप्तं पृच्छन्तीति सौषुप्तिकानि तैः सौषु०, प्रीयमाणाः प्रीतिं प्राप्यमानाः ॥ ६९ ॥ अकुर्वती खहर्षस्य, सखीरपि विभागिनी । साऽचलचलनन्यास-हंसन्ती हंसवल्लभाः ॥ ७० ॥ अकु० सा सुमंगला अचलत् । किं कुर्वती ? सखीरपि खहर्षस्य विभागिनीरकुर्वती । पुनः किंवि० चलनन्यासै११श्चरणमोचनैर्हसवल्लभा राजहंसीहसन्ती ॥ ७० ॥ १८ सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy