SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् २५५ हारे० धीविष्करी बुद्धिपक्षिणी स्त्रीणां स्तनवल्मीकं अनुस्तनरूपो कोटनन्तरं, अनु पश्चात् महाभोगिनि, महानाभोगो विस्तारो यस्य स महाभोगी, तस्मिन् महासर्प ? या वा३ एवंविधे हारे वीक्षणे सति कथं आसीदति आसन्ना भवति अपितु नैव,, किंलक्षणा धीविष्करी ? कुलायेच्छुः कुलायं नीडं, पक्षे कुलाय वंशाय निरुपद्रवतां इच्छुः ॥ ६४ ॥ ६ मन्ये मोहमयः सर्गः, स्त्रीषु धात्रा समर्थितः। यान्ति यत्तदभिष्वंगा-न्मूढतां तात्त्विका अपि॥६५॥ __ मन्ये० अहं एवंविधं मन्ये धात्रा ब्रह्मणा स्त्रीषु मोह-९ मयः सर्गः सृष्टिः समर्थितः कृतः, यत्तदभिष्वंगात् यत् यस्मात् कारणात् तासां स्त्रीणामासक्तितः तात्त्विका अपि विद्वांसोऽपि मूढतां यान्ति ॥ ६५ ॥ जातौ नः किल मुख्या श्रीः, सापि गोपालवल्लभा। जातं जलात्कलाधार-द्विष्टं शिश्राय पुष्करम् ॥६६॥ जातौ० नो अस्माकं जातौ या श्रीलक्ष्मी मुख्या वर्तते, १५ सापि श्रीर्गोपालवल्लभा गोपालः पशुपालः कृष्णो वा तस्य । वल्लभा पत्नी जलात्पानीयात् जडात् मूर्खाद्वा जातं कलाधारविद्विष्टं कलाधारश्चन्द्रो विचक्षणो वा तं प्रति द्विष्टं पुष्करं १८ कमलं शिश्राय आश्रितवती ॥ ६६ ॥ बभार भारती ख्याति, स्त्रीजातौ विदुषीति या। खभावभङ्गे न श्रेय, इति साऽभूदभर्तृका ॥ ६७॥ बभार० या भारती स्त्रीजातौ विदुषी इति ख्याति बभार २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy