SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५४ जैनकुमारसंभवं [सप्तमः चेतस्तुरंगम् ? तच्चारुविचाराध्वनि तेषां स्वमानां मनोज्ञविचारमार्गधावितं सत्वरं चलितम् ॥ ६० ॥ ३ नाम्ना न केवलं वामा, वामा बुद्धिगुणेष्वपि । ऊहे स्फुरन्ति सद्दृष्टिलालसे नालसेक्षणाः ॥ ६१॥ नाम्ना० वामा स्त्रियः केवलं नाम्ना न वामा न प्रतिकूला ६ किं तु बुद्धिगुणेष्वपि तु वामाः । अलसेक्षणाः स्त्रियः सदृष्टिलालसे प्रशस्यलोचनगोचरे ऊहे विचारे न स्फुरन्ति न समर्थी भवन्ति ॥ ६१ ॥ ९ कटीरस्तनभारेण, यासां मन्दः पदक्रमः । तासां विचारसामर्थ्य, स्त्रीणां संगच्छते कथम् ॥६२॥ कटी० यासां स्त्रीणां कटीरं कटितटं तस्य स्तनयोश्च भारेण १२ पदक्रमो मन्दो वर्तते, पदश्चरणः पक्षे विभक्त्यंतरं पदं, तासां स्त्रीणां विचारसामर्थ्य विशेषेण चारो गमनं तस्या समर्थ, पक्षे ऊहशक्तिः कथं सङ्गच्छते, कथं घटते ? ॥ १२ ॥ १५ स्थूलस्तनस्थलं दृष्ट्वा, हृदयं हरिणीदृशाम् । त्रस्यता यानहंसेन, भारती नीयतेऽन्यतः ॥ ६३ ॥ स्थूल० हरिणीदृशां स्त्रीणां स्थूलस्तनस्थलं हृदयं दृष्ट्वा १० त्रस्यता त्रासं प्रामुवता यानहंसेन वाहनराजहंसेन भारती सरखती अन्यतः अन्यत्र नीयते । कोऽर्थः ? स्थले राजहंसानां प्रायः स्थितिनं भवति इति भावः ॥ ६३ ॥ हारेऽनुस्तनवल्मीकं, महाभोगिनि वीक्षिते । २२ आसीदति कुलायेच्छुः, स्त्रीणां धीविष्करी कथम् ॥६४॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy