SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५३ सर्गः] टीकया सहितम् नैय० प्रवर्धिष्णुर्वर्धनशीलः आनंदः तस्याः सुमंगलायाः हृदयं सोल्लासं सविकाशं निरवीवृतत् निवर्तयामास निष्पादयामासेत्यर्थः । क इव ? नैयग्रोधांकुर इव, न्यग्रोधस्यायं नैय-३ ग्रोधः, यथा वटसंबंधी अंकुरो वर्धिष्णुर्भुवः, पुटं सोल्लासं निवर्तयति ॥ ५७ ॥ यन्निभालनभूः प्रीतिमैने मम तनूं तनुम् । ६ तत्फलावाप्तिजन्मा तु, मातु क्वेत्याममर्श सा॥५८॥ यन्नि० सा सुमंगला इति आममर्श इत्थं विमर्शति स्म । इतीति किम् ? यन्निभालनभूः येषां स्खमानामालोकनसमुत्पन्ना प्रीतिर्मम तनूं शरीरं तनुं कृशां मेने। तु पुनस्तत्फलावाप्तिजन्मा तेषां खप्नानां फलप्राप्तिसमुत्पन्ना प्रीतिः क मातु ॥ ५८ ॥ तया स्वपक्षणोनीतप्रीतिसन्तर्पितात्मया। १२ उन्निद्रा नित्यमस्वमवध्वोऽप्यबहु मेनिरे ॥ ५९॥ तया० तया सुमंगलया अस्वप्नवध्वोऽपि देवांगना अपि नित्यं निरंतरं उन्निद्रा निद्रारहिताः सत्यः अबहु मेनिरे न बहु १५ मन्यन्ते स्म । किंविशिष्टया तया ? खप्नक्षणोन्नीतप्रीतिसंतपितात्मया, स्वप्नक्षणात् स्खमोत्सवात् उन्नीता प्राप्ता प्रीतिस्तया संतर्पितात्मया प्रीणितात्मया ॥ ५९ ॥ १० चेतस्तुरंगं तच्चारुविचाराध्वनि धावितम् । सा निःप्रत्यूहमित्यूहवल्गया विदधे स्थिरम् ॥ ६॥ चेत० सा सुमंगला चेतस्तुरंगं इति ऊहविचारवल्गया निःप्रत्यूहं निर्विघ्नं यथा भवति तथा स्थिरं विदधे । किंलक्षणं २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy