SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५२ जैनकुमारसंभवं [ सप्तमः उत्प्रेक्ष्यते - साक्षात् प्रत्यक्षं तद्वीक्षणात् तेषां स्वप्नानां दर्शनात् नयनोत्सवं कर्तुकामेव ॥ ५३ ॥ स्वमार्थास्तानपश्यन्ती, पुरः सा चिखिदे क्षणम् । प्राप्ता मत्कुक्षिमेवामी, इति द्राग् मुमुदे पुनः ॥५४॥ स्वप्ना० सा सुमङ्गला पुरोऽग्रे तान् स्वनार्थान् स्वप्नपदार्थान् ६ अपश्यन्ती, क्षणं चिखिदे खेदं प्राप्तवती । पुनर्द्राग् शीघ्रं इति कारणात् मुमुदे प्रमोदं धृतवती, इतीति किम् ? अमी स्वप्नार्था मत्कुक्षिमेव प्राप्ताः ॥ ५४ ॥ निर्नष्टनिद्रनेत्रा सा, स्वमान्तरचिन्तयत् । मुनिरप्राप्तपूर्वाणि, पूर्वाणीव चतुर्दश ॥ ५५ ॥ निर्न० सा सुमंगला निर्नष्टनिद्रनेत्रा निद्रारहितलोचना १२ सती चतुर्दशखमान् अन्तर्मध्ये अचिन्तयत् । क इव मुनिरिव, यथा मुनिरप्राप्तपूर्वाणि चतुर्दशपूर्वाणि चिन्तयति स्मरति ॥ ५५ ॥ स्मृतिप्रत्ययमानीते, मत्या स्वनकदम्बके । कदम्बकोरकाकारपुलका साऽभवन्मुदा ॥ ५६ ॥ स्मृति० सा सुमंगला मुदा हर्षेण कन्दबकोरकाकारपुलका १८ कदंबाख्यपुष्पस्य कोरको मुकुलस्तदाकारका पुलका तत्सदृशरोमांचाऽभवत् । क्व सति ? मत्या बुद्ध्या खमकदंब के खप्नसमूहे स्मृतेः प्रत्ययं गोचरं आनीते सति ॥ ५६ ॥ नैयग्रोधोऽङ्कुर इव, प्रवर्धिष्णुः पुटं भुवः । आनन्दो हृदयं तस्याः, सोल्लासं निरवीवृतत् ॥ ५७ ॥ १५ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy