________________
सर्ग: ]
टीका सहितम्
२५१
आधा० सा सुमंगला विरोचनं अग्निं ददर्श । किंलक्षणं अग्निम् ? सर्वाण्यग्नेर्विशेषणानि, आघोराघोररोचिष्णुं आघोरं घृतं तस्य घोरेण सेकेन रोचिष्णुं देदीप्यमानम् । चामी - ३ करत्विषं सुवर्णकान्तिम्, जिष्णुं जयनशीलम् । अजिह्मविलसज्ज्वालाजिव्हं अजिह्मापदिष्टाः विलसन्त्यः ज्वाला एव जिह्वा यस्य तं अजि० । आहुतिलोलुपं आहुतौ होतव्यद्रव्य - ६ ग्रहणे लोलुपं लम्पटम् ॥ ५० ॥ उत्प्रेक्ष्यते - श्मश्रुणा इव कूर्चसदृशेन धूमेन श्यामं कृष्णम्, मखभुजां देवानां मुखम् श्वसनोद्भूतरोचिषं श्वसनः पवनः तस्मादुत्पन्नरुचिम् ॥ ५१ ॥ ९
युग्मम् ॥
** इत्यष्टाविंशतिश्लोकैः चतुर्दशस्वप्नवर्णनम् ॥ 9 प्रविश्य वदनद्वारा, तस्याः स्वमा अमी समे । कूटस्थ कौटुम्बिकतां, भेजिरे कुक्षिमन्दिरे ॥ ५२ ॥ प्रवि० अमी गजादयोऽग्निपर्यन्ताः समे सर्वे स्वमास्तस्याः सुमंगलायाः कुक्षिमन्दिरे उदररूपगृहे वदनद्वारा मुखद्वारेण १५ प्रविश्य कूटस्थ कौटुंबिकतां स्थिरगृहपतित्वं भेजिरे सेवन्ते
स्म ॥ ५२ ॥
ततो गुणत्रजागरं, जजागार सुमंगला । साक्षात्तद्वीक्षणात्कर्तुकामेव नयनोत्सवम् ॥ ५३ ॥
Jain Education International
१२
ततो ० ततस्ततोऽनन्तरं सुमंगला जजागार । किंविशिष्टा सुमंगला ? गुणत्रजागारं गुणा औदार्यगांभीर्य चातुर्य माधुर्यधैर्यादयस्तेषां व्रजः समूहस्तस्य आगारं गृहम् । पुनः किंविशिष्टा ? २२
For Private & Personal Use Only
१८
www.jainelibrary.org