SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५० जैनकुमारसंभवं [सप्तमः विमानस्यैव विशेषणानि । उत्प्रेक्ष्यते-सूर्यबिंबादुद्भूतं प्रकटी भूतमिव । उत्प्रेक्ष्यते-अर्चिषां तेजसां स्थानमिव । उत्प्रेक्ष्यते३ चरिष्णुः चलनशीलो रत्नाद्रिः रत्नाचल इव । उत्प्रेक्ष्यतेभारादिवः स्वर्गात् च्युतमिव भ्रष्टमिव !॥ ४६ ॥ दीव्यद्देवांगनं क्रीडदेवस्त्री । रत्नभित्तिरुग्भिः किरणैस्तमोऽन्धकारं क्षिपत् । ६ अभंकषं आकाशलग्नम् ॥ ४७ ॥ युग्मम् ॥ - रक्ताश्मरिष्टवैडूर्यस्फटिकानां गभस्तिभिः। लम्भयन्तं नभश्चित्र-, फलकस्य सनाभिताम् ॥४८॥ वार्धिना दुहितुर्दत्तामिव कन्दुककेलये। रत्नराशिं दवीयांसमपुण्यानां ददर्श सा ॥४९॥ युग्मम् ॥ १२ रक्ता० सा सुमंगला रत्नराशिं ददर्श । किं कुर्वन्तं रत्नराशिम् ? रक्ताश्मरिष्टवैडूर्यस्फटिकानां रक्ताश्मा पद्मरागमणिः, अरिष्टं कृष्णरत्नं, वैडूर्य नीलमणिः, स्फटिकः श्वेतमणिः, एतेषां १५ गभस्तिभिः किरणैः नभ आकाशं चित्रफलकस्य सनाभितां 'चित्रफलकस्य सादृश्यं लंभयन्तं प्रापयन्तम् ॥ ४८ ॥ पुनः किंलक्षणं रत्नराशिम् ? उत्प्रेक्ष्यते-वार्धिना समुद्रेण दुहितुः १८ पुत्र्या लक्ष्म्याः कंदुककेलये दत्तमिव । अपुण्यानां निर्भाग्यानां : दवीयांसं अतिदूरम् ॥ ४९॥ युग्मम् ॥ आघोराघोररोचिष्णुं, जिष्णुं चामीकरत्विषाम् । २१ अजिमविलसज्वालाजिह्वमाहूतिलोलुपम् ॥ ५० ॥ श्मश्रुणेव नु धूमेन, श्याम मखभुजां मुखम् । ददर्श श्वसनोद्भूतरोचिषं सा विरोचनम् ॥ ५१ ॥ युग्मम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy